पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/२७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२५८
[स्कन्धः - १०
नारायणीये


वसुदेवनन्दोग्रसेनादीन् । व्याप्तस्योत्सारणमशक्यं तदपि समशिषत् आज्ञापयामास । दुष्टस्य कंसस्योक्तिभिः रुष्टः कुपितस्त्वम् अञ्चन् उत्पतन् उदञ्चतः उन्नत्मितस्य खडस्य व्यावल्गेन चलनेन दुस्सङ्ग्रहं ग्रहीतुमशक्यमपि हठाद् बलात्कारेणैव औग्रसेनिं कंसं प्राग्रहीः ॥ ८ ॥

सद्यो निष्पिष्टसन्धिं भुवि नरपतिमापात्य तस्योपरिष्टात्
 त्वय्यापात्ये * तदैव त्वदुपरि पतिता नाकिनां पुष्पवृष्टिः ।
किं किं ब्रूमस्तदानीं सततमपि भिया त्वद्गतात्मा स भेजे
 सायुज्यं त्वद्वधोत्था परम ! परमियं वासना कालनेमेः ॥ ९ ॥

 सद्य इति । आपात्य पातयित्वा तस्योपरिष्टाद् उपरि आपात्ये आपतति त्वयि तव कंसोपरिपतनं नाकिनां पुष्पवृष्टिपतनमपि युगपज्जातमित्यर्थः । किं किं ब्रूमः । त्वत्स्मरणं त्वत्सायुज्यं कुरुत इत्यत्रोपपत्तीर्बहु न कथयामः, यतस्तदानीं भिया सततं त्वद्गतात्मा स कंसः सायुज्यं भेजे । यद् भीत्यापि विष्णुस्मरणं, सेयं परं केवलं कालनेमेस्त्वद्वधोत्था वासना | कंसः प्राक् कालनेमिर्नामासुरः । स च विष्णुना हतः ॥ ९ ॥

तद्भ्रातृनष्ट पिष्ट्वा द्रुतमथ पितरौ सन्मनुग्रसेनं
 कृत्वा राजानमुच्चैर्यदुकुलमखिलं मोदयन् कामदानैः ।
भक्तानामुत्तमं चोद्धवममरगुरोराप्तनीतिं सखायं
 लब्ध्वा तुष्टो नगर्यो पवनपुरपते ! रुन्धि मे सर्वरोगान् ॥१०॥

 तदिति । तद्भ्रातॄन् कंसानुजान् कङ्कन्यग्रोधकादीन् । पितरौ देवकीवसुदेवौ । उच्चैः अतिशयेन मोदयन् | अमरगुरोः बृहस्पतेः आप्ता गृहीता नीतिर्नयशास्त्रं येन तमुद्धवं सखायं कार्यसचिवतया नर्मसचिवतया च लब्ध्वा तुष्टः कृतकृत्य इव नगर्यांं वसन्निति शेषः ॥ १० ॥

इति कुवलयापीडवधवर्णनं भगवतो मल्लरङ्गप्रवेशवर्णनं मल्लयुद्धवर्णनं

मल्लवधवर्णनं कंसवधादिवर्णनं च

पञ्चसप्ततितमं दशकम् ।


१. 'ण औ' क.ग. पाठः. २. 'सम्॥' क. पाठः. ३. 'वरद!' क.घ.ड. च. पाठ:. ४. 'कृत्वा तु' घ.ड. पाठः.

  • आपततीत्यापात्यः ‘भव्यगेय-' (३-४-६८) इति निपातनात् कर्तरि ण्यत् ।