पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/२७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् - ७५]
२५७
मल्लवधवणनम् ।


पुण्यकाले पुण्यपरिपाक उपगते इदंप्रथमं दृष्ट्वा विगतपापाः पूर्णानन्दाश्च सन्तः त्वद्दर्शनेन स्मृतानि त्वच्चरितानि सरसं सानन्दं यथा भवति तथा अभिजगुः प्रशशंसुरित्यर्थः ॥ ५ ॥

चाणूरो मल्लवीरस्तदनु नृपगिरा मुष्टिको मुष्टिशाली
 त्वां रामं चाभिषेदे झटझटिति मिथो मुष्टिपातातिरूक्षम् ।
उत्पातापातनाकर्षणविविधरणान्यासतां तत्र चित्रं
 मृत्योः प्रागेव मल्लप्रभुरगमदयं भूरिशो बन्धमोक्षान् ॥ ६॥

 चाणूर इति । झटझटिति सशब्दं मिथो मुष्टिपातैरतिरूक्षं यथा भवति तथा । उत्पात उन्नयनम्, आपातनं भुव्यवपातनम्, मिथो बद्धहस्तपादयोरितरेतरत आकर्षणम्, एवंविधानि विविधानि रणानि तावदासताम् । मृत्योर्मरणात् प्रागेवान्योन्यहस्तपादादिकृतान् बन्धान् मोक्षांश्चायमगमत्, किमुच्यते मृतो बन्धान्मोक्षमगमदितीति भावः ॥ ६ ॥

हा धिक् कष्टं कुमारौ सुललितवपुषौ मल्लवीरौ कठोरौ
 न द्रक्ष्यामो व्रजामस्त्वरितमिति जने भाषमाणे तदानीम् ।
चाणूरं तं करोद्भ्रामणविगलदसुं पोथयामासिथोर्व्यां
 पिष्टोऽभून्मुष्टिकोऽपि द्रुतमथ हलिना नष्टशिष्टैर्दधावे ॥ ७ ॥

 हा धिगिति । करेण यद् उद्धामणं तेनैव विगलदसुम् उर्व्यां पोथयामासिथ प्रक्षिप्तवान् । नष्टशिष्टैः प्राणपरीप्सया दधावे धावनमकारि ॥ ७ ॥

कंसः संवार्य तूर्य खलमतिरविदन् कार्यमार्यान् पितृंस्ता-
 नाहन्तुं व्याप्तमूर्तेस्तव च समशिषद् दूरमुत्सारणाय ।
रुष्टो दुष्टोक्तिभिस्त्वं गरुड इव गिरिं मञ्चमञ्चनुदञ्चत्-
 खड़व्यावल्गदुस्संग्रहमपि च हठात् प्राग्रहीरौग्रसेनिम् ॥ ८ ॥

 कंस इति । कंसः कार्यम् एवं स्थिते यत् कर्तव्यं त्वत्पादपतनं, तद् भवितव्यताबलावू अविदन् अजानन् आर्यान् सज्जनान् । आहन्तुं[१] निग्रहाय । पितृन्


  1. 'न्तुं तेन्नि' ख. पाठः.