पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/२७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२५६
[स्कन्ध:- १०
नारायणीये

मल्लक्रीडारङ्गताविशन्तम् । मङ्गल्यरूपयाङ्गभङ्गया रभसहृतानि बलात्कारेण हृतानि मनोलोचनानि येपाम् । हंहो हे लोकाः! यत्पुत्रोऽयं, स नन्दस्त्रिजगति धन्यः नु निश्चितम् । अथवा नहि नहि, याः एनं स्तनान्तरे कृत्वा आलिङ्गनादिसुखमन्वभूवन्, ताः पशुपाङ्गनाः नन्दादपि धन्यतमा इति केचित् । नो नो गोप्यः, यास्य मातृभावमन्वभूत्, सा यशोदा धन्या । नो नो यशोदा, वयमेव धन्येक्षणाः यानि श्रीकृष्णाख्ये परब्रह्मणि निमग्नानि, तान्यस्माकमीक्षणान्थेव भाग्यवन्तीति शशंसुः स्तुतवन्तः ॥ ४ ॥

 ननु सर्वेषामेवं मथि स्नेहबहुमानादेः किं कारणमित्याशङ्कायामाह-

पूर्ण ब्रह्मैव साक्षान्निरवधिपरमानन्दसान्द्रप्रकाशं
 गोपेषु त्वं व्पलासीर्न खलु बहुजनैस्तावदावेदितोऽभूः ।
दृष्ट्वाय त्वां तदेदंप्रथममुपगते पुण्यकाले जनौघाः
 पूर्णानन्दा विपापाः सरसमभिजगुस्त्वत्कृतानि स्मृतानि ॥ ५ ॥

 पूर्णमिति । पूर्णं सर्वा_गतम् । अतस्तवैव सर्वशरीरेषु जीवरूपेणावस्थानाद् आत्मनि च सर्वेषां निरतिशयस्नेहबहुमानादिसम्भवात् त्वयीदमुपपद्यत इति भावः । नन्वेकस्यानेकत्रावत्थानं कथमित्यत्राह --- ब्रह्मेति । आकाशवद् बृहत्त्वादेवेत्यर्थः । ननु ब्रह्मणः कथं चाक्षुषतः तत्राह - साक्षादू गोपेषु व्यलासीरिति । श्रीकृ-णात्मनावतीर्णत्वादित्यर्थः । ननु शरीरपरिग्रहश्चेद् ममापि संसारप्रङ्ग इत्यंत्राह---- निरवधिपरमानन्दसान्द्रप्रकाशमिति । निरवधि नित्यं परमानन्दरूपं सान्द्रप्रकाशं विज्ञानधनम् । तत्र नित्यत्वात् जननमरणासम्भवः, परमानन्दरूपत्वाद् दुःखाभावः, विज्ञानघनत्वादज्ञानाभावश्चेति संसारनिदानाभावान्नोक्तदोष इति भावः । कथं तर्हि कंसादयो मां ब्रह्मतया न जानन्तीत्यत आह - न खल्विति । यैःकै।श्चज्जन्मजन्मान्तराजितपुण्यपरिपाकवद्भिरेव त्वं ब्रह्मेत्यावेदितोऽभूरित्यर्थः । ननु तर्हि पाविष्ठानां कथं मदर्शनं संबोभवीतीति चेत्, सत्यं, पुण्यपापयोः पुण्याधिक्ये सति तलरिपाकत्रशेन त्वद्दर्शनसुखं तावत् सम्भवति । ततस्त्वद्दर्शनस्मरणचरित्रवर्णनादिना विगतपापाः सन्तः क्रमादेतेऽपि त्वत्तत्त्वज्ञानेऽधिक्रियन्त एवेत्यभिप्रायेणाह- दृष्ट्वाथ त्वामिति । जनौघाः आनिनोऽज्ञानिनश्च त्वां