अथोपनयनपूर्वकं विद्यां गृहीत्वा मृतपुत्रं दक्षिणीकृत्य समावृत्त इत्याह-
गत्वा सान्दीपनिमथ चतुष्षष्टिमात्रैरहोभिः |
गत्वेति । स्वतः सर्वज्ञस्त्वं, तथापि लोकसङ्ग्रहार्थं सान्दीपनि नाम मुनिं गत्वोप[१]नयनं प्राप्य सर्वविद्याः साङ्गोपाङ्गोपवेदरूपाः गृहीत्वा नष्टं मृतं गुरोः पुत्रं तस्मै गुरवे दक्षिणार्थं दत्त्वा पाञ्चजन्यं शङ्खवेषधरपञ्चजननामासुरवधात् तदङ्गप्रभवं शङ्खम् ॥ १ ॥
श्रीकृष्णेन बृन्दावनान्मथुराप्रस्थाने गोपीनां परिताप[२] शमनार्थं यदुक्तम् ‘अचिरादुपयामि सन्निधिं व' इति, तत् सत्यं कर्तुमात्मनिर्विशेषमुद्धवं मथुरास्थः स्वयं प्रेषयामासेत्याह-
स्मृत्वा स्मृत्वा पशुपसुदृशः प्रेमभारप्रणुन्नाः |
स्मृत्वेति । पशुपसुदृशो गोप्यः त्वां स्मृत्वा स्मृत्वा पुनः पुनः स्मरणात् प्रेमभारेण अनुरागातिशयेन प्रणुन्नाः परवशा जाताः । त्वमपि कारुण्येन भक्तवात्सल्येन विवशः परवशः। किञ्चेति, उद्धवप्रेषणे हेत्वन्तरमप्यस्तीत्यर्थः । तदेवाहअमुष्मा इति । तासां भक्युद्रेकम् उद्धवात् भक्त्यतिशयम् अमुष्मै उद्धवाय प्रदर्शयिष्यन् प्रदर्शनार्थमित्यर्थः । परमसुहृदे भक्तवर्यायेति भक्तवर्याभिमानापगम एव त्वत्परमसुहृत्त्वमुचितमिति तवाभिप्राय इत्यभिप्रायः ॥ २ ॥
त्वन्माहात्म्यप्रथिमपिशुनं गोकुलं प्राप्य सायं |