द्विलसितानां कुहकवचसां कपटवचनानाम् । अथवा हे कुहक! कपट! तवोन्मादानाम् अननुसंहितपूर्वापराणां वचसां का[१] वा विस्मरेत् ॥ ५ ॥
रासक्रीडालुलितललितं विश्लथत्केशपाशं |
रासेति । रासक्रीडायां लुलितं मर्दितं ललितं सुन्दरं च त्वदङ्गं हे कारुण्याब्धे ! भक्तवत्सल ! सकृद् एकवारमपि समालिङ्गितुमपि । भुवनमदन ! सर्वेषां सर्वदापि सर्वकामोन्मादप्रद ! ॥ ६ ॥
एवम्पायैर्विवशवचनैराकुला गोपिकास्ता- |
एवमिति । अथोद्धवो विज्ञानगर्भैस्त्वत्सन्देशैस्ताः प्रकृतिं कृतार्थतामनयत् । त्वन्मयीभिः त्वच्चिन्तयात्मानं विस्मरन्तीभिः तत्तद्वार्ताभिः सरसं यथा भवति त[३]था कानिचिद् वासराण्यनयत् ॥ ७ ॥
त्वत्प्रोद्गानैः सहितमनिशं सर्वतो गेहकृत्यं |
त्वदिति । उत्खापलापाः स्वप्नवचनानि सैव त्वद्वार्तैव । चेष्टाः व्यापाराः प्रायस्त्वदनुकरणरूपाः । एवम् उक्तप्रकारेण तासां सर्वे त्वन्मयं दृष्ट्वा अयमुद्धवो विस्मयादधिकं व्यमुहद् विमुमोह प्रतिपत्तिमूढोऽभूदित्यर्थः ॥ ८ ॥