उपगत इति । प्रमदसम्भ्रमेण हर्षातिशय जनितसौजन्यव्यापारत्वरया कम्प्रौ
कम्पनशीलौ पयोधरौ यस्याः । विविधमाननं संमाननम् आदधतीं तो सुखं रमयाञ्चकृषे ॥ २ ॥
पृष्टा वरं पुनरसाववृणोद् वराकी |
पृष्टेति । यदिच्छसि, तद् वृण्विति त्वया पुनः प्रस्थाने वरं पृष्टा[१] असौ सैरन्ध्री भूयस्त्वया सुरतमेवावृणोद्, न मोक्षम् त्वत्सायुज्यसामीप्यादिरूपम् । तत्र बुधः सायुज्याख्यमोक्षरसाभिज्ञ एव सायुज्यमस्त्विति वदेत् प्रार्थयेत् । एषा तु वराकी निर्विषयमोक्षरसानभिज्ञेत्येतत् कामं भवतु | अनिशं सामीप्यमस्त्वि[२]त्यपि किं नाब्रवीत् । त्वत्सामीप्यसुखं तु तया कञ्चित् कालमनुभूतमेव । तस्मात् सर्वमीश्वरेच्छापरतन्त्रमिति वेदितव्यम् ॥ ३ ॥
ततो भवान् देव! निशासु कासुचि- |
तत इति । उपश्लोक इति श्रुतं विश्रुतं सुतम् अदादू उत्पादयामास । सः नारदात् सात्त्वततन्त्रं पाञ्चरात्राद्यागमं वेत्तीति तथा ॥ ४ ॥
अक्रूरमन्दिरमितोऽथ बलोद्धवाभ्या- |
अक्रूरेति । एनम् अक्रूरं विसृज्य विपिनाद् आगतानां पाण्डवेयानां वृत्त तथा धृतराष्ट्रचेष्टां च विवेदिथ ॥ ५ ॥