विघाताज्जामातुः परमसुहृदो भोजनृपते- |
विघातादिति । जरासन्धस्य जामाता कंसः, तत्पुत्र्योरस्तिप्रास्त्योः पतित्वात्, तस्य भोजनृपते[१]र्वधाद् अनवधिरुषान्धे जरासन्धे मथुरां रुन्धति सति द्योः स्वर्गाल्लब्धैर्मातलिनानीतै रथाद्यैः सपरिकरैः कतिपयबल: परिमितसेनासहितः तदुपनीतं जरासन्धाहृतं त्रयोविंशत्यक्षौहिणि बलं समहथाः सञ्जहर्थ ॥ ६ ॥
बद्धं बलादथ वलेन बलोत्तरं त्वं |
बद्धमिति । अथ बलेन बलाडू बद्धं बलेन उत्तरम् उत्कृष्टं भूयो बलोद्यमरसेन जरासन्धः पराजितो भूयोऽपि भूरिबलमुपनेष्यतीति कौतुकेन एनं जरासन्धं मुमोचिथ । कीदृशो जरासन्ध इत्यपेक्षायामाह - निश्शेषदिग्जये समाहृतानि विश्वेषां सर्वनृपाणां सैन्यानि येन तस्माज्जरासन्धादन्यः कः ॥ ७॥
भग्नः स लग्नहृदयोऽपि नृपैः प्रणुन्नो
युद्धं त्वया व्यधित षोडशकृत्व एवम् । |
भग्न इति । स [२] जरासन्धस्त्वत्सकाशात् सप्तदशकृत्वः पराजितः ॥ ८ ॥
अष्टादशेऽस्य समरे समुपेयुषि त्वं |