पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/२५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् -- ७०]
२३९
सुदर्शनाख्यविद्याधरस्य शापमोक्षवर्णनम् ।


इति त्वयि रसाकुलं रमितवल्लभे वल्लवा:
 कदापि पु[१]नरम्विकाकमितुरम्विकाकानने ।
समेत्य भवता समं निशि निषेव्य दिव्योत्सवं
 सुखं सुषुपुरग्रसीद ब्रजपमुग्रनागस्तदा ॥ १ ॥

 इतीति । इति उक्तप्रकारेण रसेन कौतुकेन आकुलं यथा भवति तथा रमिता वल्लभा येन तस्मिंस्त्वयि सति पुनः कदाचिद् बल्लवा गोपाः अम्बिकाकमितुः अम्बिकावनाख्ये शिवक्षेत्रे भवता समं समेत्य निशि दिव्योत्सवं निषेव्य सुखं सुषुपुः । तदा उग्रः क्रूरो नागोऽजगरो ब्रजपं नन्दम् अग्रसीत् ॥ १ ॥

समुन्मुखमथोल्मुकैरभिहतेऽपि तस्मिन् वला-
 दमुञ्चति भवत्पदे न्यपति पाहि पाहीति तैः ।
तदा खलु पदा भवान् समुपगम्य पस्पर्श तं
 वभौ स च निजां तनुं समुपसाद्य वैद्याधरीम् ॥ २ ॥

 समुन्मुखमिति । समुन्मुखं ग्रसनव्यग्रम् | उल्मुकैः अलातैः । तैः गोपैः भवत्पदे न्यपति । वैद्याधरी विद्याधरसम्बन्धिनम् । समुपसाद्य प्राप्य बभौ शुशुभे ॥ २ ॥

सुदर्शनधर! प्रभो! ननु सुदर्शनाख्योऽस्म्यहं
 मुनीन् क्कचिदपाहसं त इह मां व्यधुर्वाहसम् ।
भवत्पदसमर्पणादमलतां गतोऽस्मीत्यसौ
 स्तुवन् निजपदं ययौ व्रजपदं च गोपा मुदा ॥ ३ ॥

 सुदर्शनेति । कचित् कदाचिद् मुनीन् अङ्गिरसः अपाहसम् अपहसित- वानस्मि । ते मुनयः इह अस्मिन् प्रदेशे मां वाहसम् अजगरं व्यधुः यत आत्मनः सुरूपतया हप्तोऽस्मान् विरूपतयापहसितवान्, अतस्त्वमजगरो भवितेति शप्तवन्तः । इदानीममलतां गतः शापान्मुक्त इत्युक्त्वा स्तुवन् निजपदं विद्याधरलोकम् ॥ ३ ॥


  • परस्मैपदमात्मनेपदानित्यत्वात् ।

  1. 'रमम्बि' क. ग. घ. ङ. पाठः.