इति त्वयि रसाकुलं रमितवल्लभे वल्लवा: |
इतीति । इति उक्तप्रकारेण रसेन कौतुकेन आकुलं यथा भवति तथा रमिता वल्लभा येन तस्मिंस्त्वयि सति पुनः कदाचिद् बल्लवा गोपाः अम्बिकाकमितुः अम्बिकावनाख्ये शिवक्षेत्रे भवता समं समेत्य निशि दिव्योत्सवं निषेव्य सुखं सुषुपुः । तदा उग्रः क्रूरो नागोऽजगरो ब्रजपं नन्दम् अग्रसीत् ॥ १ ॥
समुन्मुखमथोल्मुकैरभिहतेऽपि तस्मिन् वला- |
समुन्मुखमिति । समुन्मुखं ग्रसनव्यग्रम् | उल्मुकैः अलातैः । तैः गोपैः भवत्पदे न्यपति । वैद्याधरी विद्याधरसम्बन्धिनम् । समुपसाद्य प्राप्य बभौ शुशुभे ॥ २ ॥
सुदर्शनधर! प्रभो! ननु सुदर्शनाख्योऽस्म्यहं |
सुदर्शनेति । कचित् कदाचिद् मुनीन् अङ्गिरसः अपाहसम् अपहसित- वानस्मि । ते मुनयः इह अस्मिन् प्रदेशे मां वाहसम् अजगरं व्यधुः यत आत्मनः सुरूपतया हप्तोऽस्मान् विरूपतयापहसितवान्, अतस्त्वमजगरो भवितेति शप्तवन्तः । इदानीममलतां गतः शापान्मुक्त इत्युक्त्वा स्तुवन् निजपदं विद्याधरलोकम् ॥ ३ ॥
- परस्मैपदमात्मनेपदानित्यत्वात् ।
- ↑ 'रमम्बि' क. ग. घ. ङ. पाठः.