पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/२५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२३८
स्किन्धः - १०
नारायणीये


केलिसम्मृदिततया निर्मलानि ललितान्यङ्गानि यासां नवधर्मलेशैः सुभग आत्मा शरीरं यासां, मन्मथेनासहनं सुरतलीलाकालक्षेपासहिष्णु चेतो यासां, तासां सुकृतेन चोदितः प्रेरितः यावत्यो गोप्यस्तावत्य आकलिता धृता मूर्तयो येन ॥ ९ ॥

केलिभेदपरिलोलिताभिरतिलालिताभिरवलालिभिः
 स्वैरमीश! ननु सूरजापयसि चारु नाम विहृतिं व्यधाः ।
काननेऽपि च विसारिशीतलकिशोरमारुतमनोहरे
 मूनसौरभमये विलेसिथ विलासिनीशतविमोहनम् ॥ १० ॥

 केलीति। केलिभेदैः आलिङ्गनचुम्बनप्रहर [१]णदन्तव्रणनखक्षतचूषणसीत्कारहिक्काश्वासादिप्रयोगरूपैः परिलोलिताभिः आकुलीक्रियमाणाभिः । सूरजापयसि यमुनाजले विहृतिं जलक्रीडां काननेऽपि च विहृतिं व्यथाः कृतवान् । विसारिणा वीजनशीलेन शीतलेन किशोरमारुतेन मन्दवायुना मनोहरे सूनानां पुष्पाणां सौरभमये । विलासिनीशतविमोहनं यथा तथा विलेसिथ अशोभथाः ॥ १० ॥

कामिनीरिति हि यामिनीषु खलु कामनीयकनिधे ! भवान्
 पूर्णसम्मदरसार्णवं कमपि योमिगम्यमनुभावयन् ।
ब्रह्मशङ्करमुखानपीह पशुपाङ्गनासु बहुमानयन्
 भक्तलोकगमनीयरूप! कमनीय! कृष्ण! परिपाहि माम् ॥ ११॥

 कामिनीरिति । हे कामनीयकनिधे! सौभाग्यार्णव! भवान् यामिनीषु कामिनीः योगिभिर्गम्यं प्राप्यं पूर्णसम्मदरसार्णवं ब्रह्मानन्दम् अनुभावयन् आस्वादयन् ब्रह्मादीनपि पशुपाङ्गनासु बहुमानयन् बहुमानयुक्तान् कुर्वन् भक्तलोकैर्गमनीयं प्राप्यं रूपं यस्य । कमनीय! कान्त! हे कृष्ण! परिपाहि ॥ ११ ॥

इति रासक्रीडायां कमनीयरूपधारिणा भगवता सह गोपीनां नृत्तगीतादिविलासवर्णनं

एकोनसप्ततितमं दशकं सैकम् ।



  1. 'हणनद' क. पाठः.