पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/२५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् - ६९]
२३७
रासक्रीडावर्णनम् ।

टीरसारवन्नवसौरभं तब भुजं वञ्चनेन अन्यापदेशेन सञ्चुचुम्ब । तज्जनितम्  उरुपुलकाङ्करं यस्मिन् ॥ ६ ॥

कापि गण्डभुवि सन्भिधाय निजगण्डमाकुलितकुण्डलं
 पुण्यपूरनिधिरम्बवाप तव पूगचर्वितरसामृतम् ।
इन्दिराविहृतिमन्दिरं भुवनसुन्दरं हि नटनान्तरे
 त्वामवाप्य दधुरङ्गनाः किमु न सम्प्रदोन्मददशान्तरम् ॥ ७ ॥

 कापीति । तव गण्डभुवि निजगण्डम् आचलितकुण्डलं यथा भवति तथा सन्निधाय पूगचर्वितरसामृतम् अमृतमयं वीटिकारसमन्वबाप । सम्मदेन प्रमोदातिशयेन उन्मददशान्तरं पूर्वापरानुसन्धानबैधुर्यलक्षणमवस्थान्तरम् ॥ ७ ॥

गानमीश! विरतं क्रमेण किल वाद्यमेलनमुपारतं
 ब्रह्मसम्मदरसाकुलाः सदसि केवलं ननृतुरङ्गनाः ।
नाविदन्नपि च नीविकां किमपि कुन्तलीमपिच कञ्चुलीं
 ज्योतिषामपि कदम्बकं दिवि विलम्बितं किमपरं ब्रुवे ॥ ८ ॥

 गानमिति । अङ्गनाः ब्रह्मसग्मदरसेन ब्रह्मानन्दानुभव[१] रसेन आकुलाः परवशा: केवलं सदसि ननृतुः । नर्तनस्य कैवल्यमेवाह - [२]गानमिति । ज्योतिषां ग्रहनक्षत्रादीनां कदम्बकमपि दिवि विलम्बितमित्यनेन सूर्योदयविलम्बात् त्रियामायामो द्योत्यते । किमपरं ब्रुवे गानवाघादौ प्रसाद: नीबीकुन्तलगात्रिकाविश्लथनानवगतिरित्यादि भुविस्थानां पारवश्यं किमर्थमुच्यत इत्यर्थः ॥ ८ ॥

मोदसीम्नि भुवनं विलाप्य विह्टतिं समाप्य च ततो विभो !
 केलिसम्प्रृदितनिर्मलाङ्गनधर्मलेशसुभगात्मनाम् ।
मन्मथासहनचेतसां पशुपयोषितां सुकृतचोदित-
 स्तावदाकलितमूर्तिराधिथ मारवीर[३]परमोत्सवान् ॥ ९॥

 'मोदेति । मोदसीम्नि ब्रह्मानन्दे भुवनं द्रष्ट्टलोकं विलाप्य मज्जयित्वा


  1. 'वेन' ग. पाठ:.
  2. 'नाविदन्निति' ग. पाठ:.
  3. ‘धी' क. पाठः.