पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/२५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३६
[स्कन्धः - १०
नारायणीये


पाणिसंक्कणितकङ्कणं च मुहुरंसलम्वितकराम्बुजं
 श्रोणिबिम्बचलदम्बरं भजत रासकेलिरसडम्बरम् ॥ ४ ॥

 वेण्विति । वेणुमादेन कृतेन तानदानेन गाननिदानभूतस्वरमदर्शनेन कलेन कण्ठोत्थिततयातिमधुरेण गानेन रागगतियोजनया रागावशेषमार्गसंयोजनेन च लोभनीयो यः पादपातः, तत्कृतेन तालमेलनेन मनोहरं रासकेलिरसस्य डम्बरं परिपोषम् ॥ ४ ॥

श्रद्धया विरचितानुगान कृततारतारमधुरस्वरे
 नर्तनेऽथ ललिताङ्गहारलुलिताङ्गहारमणिभूषणे ।
सम्मदेन कृतपुष्पवर्षमलमुन्मिपद् दिविषदां कुलं
 चिन्मये त्वयि निलीयमानग्निव संमुमोह सवधूकुलम् ॥ ५ ॥

 श्रद्धयेति । श्रद्धया कौतुकेन विरावतेनानुगानेन परोन्नीयनेन कृतस्तारतार: क्रमादत्युच्चो मधुरत्वरो यस्मिन्, ललितैरङ्गहारैः अङ्गविक्षेपैः लुलितानि स्वस्थानात् च्युतानि अङ्गस्थहारमणिभूषणानि यस्मिन्, तस्मिन् नर्तने सति सम्मदेन स्वातिशायिप्रयोगातिशयदर्शनजनितहर्षावेशेन कृतः पुष्पवर्षो येन । अलम् अतिशयेन उन्मिषद् दर्शनोत्सुकं सबधूकुलं सस्त्रीसमूहं दिविषदां कुलं देवसमूहः संमुमोह । निलीयमानमिव अदृष्टद्रष्टृदृश्यदर्शनभेदमित्यर्थः ॥ ५॥

स्विन्नसन्नतनुवल्लरी तदनु कापि नाम पशुपाङ्गना
 कान्तमंसमवलम्बते स्म तब तान्तिभारमुकुलेक्षणा ।
काचिदाचलितकुन्तला नवपटीरसारनव[१]सौरभं
 वञ्चनेन तब सञ्चुचुम्ब भुजमञ्चितोरुपुलकाङ्कु[२]रम् ॥ ६ ॥

 स्विन्नेति । स्विन्ना स्वेदार्द्रा सन्ना प्राप्तसादा तनुवल्लरी यस्याः सा तथा तान्तिभारेण क्लमातिशयेन मुकुलितनयना तब कान्तं सुन्दरम् असं भुजमूलम् अवलम्बते स्म आश्रितवती । काचिद् अपरा आचलितकुन्तला विक्ष्लथत्कबरीभरा नवपटीरसारेण मालेयेन नवम् अननुभूतचरं सौरभं यस्मिन् । यद्वा नवप-


  1. 'घनसौ' क. ग. पाठः
  2. 'रा' घ. ड. च. पाठः