पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/२५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् - ६९]
२३५
रासक्रीडावर्णनम् ।


 केशेति । केशपाशधृतपिञ्छिकावितति मयूरपिञ्छविरचितः परितः परिदृश्यमानचन्द्रकः शिरोलङ्कारविशेषो यस्य | गण्डमण्डले सञ्चलद् मकरकुण्डलं यस्य । हारजालैर्वनमालिकया च ललितं सुन्दरम् । समनुलिप्तैरङ्गरागैः कुङ्कुमादिभिः घनं निबिडं सौरभं सौरभ्यं यस्य | पीतचेलोपरि घृतया काञ्चिकया मणिमेखलया अञ्चितं शोभितम् | उदञ्चदंशु उद्गतमयूखं मणिमयं नूपुरं वस्य । एवं रासकेल्यै परिभूषितं विरचितनैपथ्यं तव रूप कलयामहे उपास्महे ॥ १ ॥

तावदेव कृतमण्डने कलितकञ्चुलीककुचमण्डले
 गण्डलोलमणिकुण्डले युवतिमण्डलेऽथ परिमण्डले ।
अन्तरा सकलसुन्दरीयुगलमिन्दिरारमण ! सञ्चरन्
 मञ्जुलां तदनु रासकेलिमयि कञ्जनाभ! समुपादधाः ॥ २ ॥

 ताबदिति । यावद् धृतरासक्रीडोचितवेषो भगवान्, तावदेव कृतं मण्डनं येन । कलिता धृता कञ्चुली गात्रिका यत्र तत् कलितकञ्चुलीकं, तत् कुचमण्डलं यस्य । अथ भूषणानन्तरं परिमण्डले निखातशङ्कुनि समतलदेशे मण्डलाकारेग स्थिते सकलसुन्दरीयुगलमन्तरा द्वयोर्द्वयोर्मध्ये सञ्चरन् तत्कुचकण्ठकपोलादावभिनये च व्यग्रभुजयुगलतया सम्यक् चरन् । मञ्जुलां मनोहराम् ॥ २ ॥

वासुदेव! तव भासमानमिह रासकेलिरससौरभं
 दूरतोऽपि खलु नारदागदितमाकलव्य कुतुकाकुला ।
वेषभूषणविलासपेशलविलासिनीशतसमावृता
 नाकतो युगपदागता वियति वेगतोऽथ सुरमण्डली ॥ ३ ॥

 वासुदेवेति । रासकेलिरेव रसः सकलेन्द्रियाहादकत्वात् तस्य सौरभं मानोज्ञकं श्रीनारदेनागदितं निवेदितम् आकलव्य श्रुत्वा । वेषभूषगविलासेषु पेशलैः विदग्धैः विलासिनीशतैः स्वस्त्रीसहस्रैः । नाकतः स्वर्गाद् वेगतो युगपद् विमानैर्वियत्यागता सुरमण्डली देवसमूहः ॥ ३ ॥

वेणुनादकृततान[१]दानकलगानरागगतियोजना-
 लोभनीयमृदुपादपातकृततालमेलनमनोहरम् ।


 + इदं परिमण्डलविशेषणं स्यात् ।


  1. 'नादक' घ. ङ. च. पाठ:.