पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/२५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२३४
[स्कन्धः-१०
नारायणीये


 भवानुत्तरमाह-

अयि कुमारिका ! नैव शङ्कयतां कठिनता मयि प्रेमकातरे ।
मयि तु चेतसो वोऽनुवृत्तये कृतमिदं मयेत्यूचिवान् भवान् ॥ ८ ॥

 अनीति । हे कुमारिकाः ! अबलाः ! प्रेमकातरे प्रणयापायभीरौ मयि कठिनता निष्करुणता नैव शङ्कयताम् । वो युष्माकं मयि चेतसोऽनुवृत्तये मनस्समाधानाय मयेदं तिरोधानं कृतम् ॥ ८ ॥

अयि निशम्यतां जीवल्लभाः प्रियतमो जनो नेदृशो मम ।
तदिह रम्यतां रम्ययामिनीष्वनुपरोधमित्यालपो विभो ! ॥ ९ ॥

 अयीति । अयि जीववल्लभाः! प्राणनाथाः ! निशम्यतां तत्त्वम् । ममेदृशः प्रियतमो नास्ति यथा भवत्यः । तत् तस्माद् इह यमुनातीरेषु सचन्द्रतया रम्यासु यामिनीषु अनुपरोधं निश्शङ्कं मया सह रम्यतामित्यालपः ऊचिषे ॥ ९ ॥

इति गिराधिकं मोदमेदुरैर्ब्रजवधूजनैः साकमारमन् ।
कलितकौतुको रासखेलने गुरुपुरीपते! पाहि मां गदात् ॥ १० ॥

 इतीति । मोदेन मेदुरैः व्याप्तैः । आरमन् क्रीडन् । रासखेलने रासक्रीडायां कलितकौतुकः धृताग्रहः ॥ १० ॥

इति रासक्रीडायां गोपीनां भगवत्समागमादानन्दपारवश्यवर्णनं

प्रणयकोपवर्णनं भगवत्कृतसान्त्वनवर्णनं च

अष्टषष्टितमं दशकम् ।


 अथ रासक्रीडां वर्णयति

केशपाशधृतपिञ्छिकावितति सञ्चलन्मकरकुण्डलं
 हारजालवनमालिकाललितमङ्गरागघनसौरभम् ।
पीतचेलधृतकाञ्चिकाञ्चित मुदञ्चदंशुमणिनूपुरं
 रासकेलिपरिभूषितं तव हि रूपमीश ! कलयामहे ॥ १ ॥