पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/२५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४०
[स्कन्धः - १०
नारायणीये


कदापि खलु सीरिणा विहरति त्वयि स्त्रीजनै-
 र्जहार धनदानुगः स किल शङ्खचूडोऽवलाः ।
अतिद्रुतमनुद्रुतस्तमथ मुक्तनारीजन
 रुरोजिथ शिरोमणिं हलभृते च तस्याददाः ॥ ४ ॥

 कदापीति । सीरिणा वलभद्रेण सह विहरति क्रीडति सति धनदानुगो वैश्रवणभृत्यः अवलाः गोपीः : जहार । अतिद्रुतं शीघ्रम् अनुद्रुत: अनुगत: भयान्मुक्तो नारीजनो येन तं शङ्खचूडं रुरोजिथ निगृहीतवान् तस्य शिरोमणिं हलभृतेऽग्रजायाददाश्च ॥ ४ ॥

दिनेषु च सुहृज्जनैः सह वनेषु लीलापरं
 मनोभवमनोहरं रसितवेणुनादामृतम् ।
भवन्तममरीद्दशाममृतपारणादायिनं
 विचिन्त्य किमु नालपन विरहतापिता गोपिकाः ॥ ५ ॥

 दिनेष्विति । एवं दिनेषु प्रतिदिनं च सुहृज्जनैः गोपबालकैः सह । मनोभवादपि मनोहरम् । रसितम् आस्वादितं वेणुनाद एवामृतं येन । अमरीदृशां स्वर्गस्त्रीनयनानाम् अमृतपारणादायिनं निजरूपामृतपानमापादयन्तम् । विरहेण क्षणं जातेन तापिताः सन्तप्तहृदया: किनु नालपन्, तत्तदवस्थां विचिन्त्य विलेपुरित्यर्थः ॥ ५ ॥

भोजराजभृतकस्त्वथ कश्चित् कष्टदुष्टपथदृष्टिररिष्टः ।
निष्ठुराकृतिरपष्ठुनिनादस्तिष्ठते स्म भवते वृषरूपी ॥ ६ ॥

 भोजेति । भोजराजस्य कंसस्य भृतकः भृत्यः । कष्टा हिंसाबहुला दुष्टपथे परोपद्रवे दृष्टिरन्वेषणं यस्य | निष्ठुरा क्रूरा आकृतिर्यस्य । वृषरूपी अपष्टुनिनादः क्रूरस्वनः भवते तिष्ठते स्म भवदर्शनपथे स्थितवान् ॥ ६ ॥

शाकरोऽथ जगतीधृतिहारी मूर्तिमेष बृहतीं प्रदधानः ।
पङ्क्तिमाशु परिघूर्ण्य पशूनां छन्दसां निधिमवाप भवन्तम् ॥ ७ ॥