पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/२५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् - ७०]
२४१
वृषभासुरवधवर्णनम् ।


 शाकर इति । शाक्करो वृषभः जगत्या भूम्या धर्ति स्थैर्य हर्त्तुं शीलमस्येति तथा । पशूनां पङ्क्तिं परिघूर्ण्य विद्राव्य छन्दसां निधिं वेदगर्भम् । एषोऽरिष्टः शक्करीजगतीधृतिबृहतीपङ्क्त्तिच्छिन्दोमात्र मुक्तः । भवां न्तुच्छन्दोनिधिरिति महान् विशेष इति च प्रतीयते ॥ ७ ॥

तुङ्गशृङ्गमुखमाश्वभियन्तं सङ्गृहय्य रभसादभियं तम् ।
भद्ररूपमपि दैत्यमभद्रं मईयन्ननदयः सुरलोकम् ॥ ८ ॥

 तुङ्गेति । तुङ्गे शृङ्गमुखे शृङ्गाग्रे यस्य, तुङ्गशृङ्गं मुखं यस्येति वा । अभियन्तम् अभिगच्छन्तम् अभियं भयरहितं भद्ररूपं वृषरूपम् अभद्रं दुष्टं सङ्गृहय्य गृहीत्वा मर्दयन् निगृह्णन् । अमदयः प्रसादयामासिथ ॥ ८ ॥

चित्रमद्य भगवन्! वृषघातात् सुस्थिराजनि वृपस्थितिरुर्व्याम् ।
वर्धते च वृषचेतसि भूयान्मोद इत्यभिनुतोऽसि सुरैस्त्वम् ॥ ९ ॥

 चित्रमिति । बृषघातादू अरिष्टवधाद् उर्व्यां वृषस्य धर्मस्य स्थितिः [१] सुस्थिराजनि। वृष्ण इन्द्रस्य चेतसि[२], वृषस्य धर्मस्य चेतसि, धर्मबुद्धौ सज्जने वा । वृषघाताद् वृषस्य स्थितिः वृषचेतसि मोदश्चेति चित्रम् ॥ ९ ॥

औक्षकाणि! परिधावत दूरं वीक्ष्यतामयमिहोक्षविभेदी ।
इत्थमात्तहसितैः सह गोपैर्गेहगस्त्वमव वातपुरेश! ॥ १० ॥

 औक्षकाणीति । हे औक्षकाणि! उक्षसमूहाः ! वृषभसमूहाः ! यूयं दूरं० परिधावत । इहायमुक्षविभेदी वृषहन्ता अरिष्टहन्ता वा । इत्थमात्तहसितैः व्याहृतहास्यवचनैः ॥ १० ॥

इति सुदर्शनाख्यविद्याधरस्य शापमोक्षवर्णनं शङ्खचूड-

वधवर्णनं वृषभासुरवधवर्णनं च

सप्ततितमं दशकम् ।



  1. 'तिः । वृ' क. ख. पाठ:.
  2. 'सि । वृषघा क. ख. पाठः.