पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/२५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४२
[स्कन्ध:- १०
नारायणीये


यत्नेषु सर्वेष्वपि नावकेशी केशी स भोजेशितुरिष्टवन्धुः ।
[१]त्वं सिन्धुजावाप्य इतीव मत्वा संप्राप्तवान् सिन्धुजवाजिरूपः ॥ १ ॥

 यत्रेष्विति । यत्नेषु नावकेशी अवन्ध्यः स केशी [२] त्वं सिन्धुजया लक्ष्म्या अवाप्य इति सिन्धुजावाप्यश्चेदहमपि सिन्दुजो भवामीति मत्वेव ॥ १ ॥

गन्धर्वतामेष गतोऽपि रूक्षैर्नादैः समुद्वेजितसर्वलोकः ।
भवद्विलोकावधि गोपवाटीं प्रमर्घ पापः पुनरापतत् त्वाम् ॥ २ ॥

 गन्धर्वतामिति । गन्धर्वताम् अश्वताम् गतोऽपि रूक्षैर्नादैः । गन्धर्वो हि मृदुनादः ॥ २ ॥

तार्क्ष्यर्पिताङ्घ्रेस्तव तार्क्ष्य एष चिक्षेप वक्षोभुवि नाम पादम्।
भृगोः पदाघातकथां निशम्य स्वेनापि शक्यं तदितीव मोहात् ॥ ३ ॥

 तार्क्ष्येति । एष तार्क्ष्यो दनुजः । भृगुर्हि विष्णुं वक्षसि पदाहन् । तत्कथां निशम्य तत् पदाहननं स्वेनात्मनापि शक्यमिति मोहादिव ॥ ३ ॥

प्रवञ्चयन्नस्य खुराञ्चलं द्रागमुं च चिक्षेपिथ दूरदूरम् ।
संमूर्छितोऽपि ह्यतिपूर्छितेन क्राधोष्मणा खादितुमाद्रुतस्त्वाम् ॥ ४ ॥

 प्रवञ्चयन्निति । खुगञ्चलं खुरप्रहारं प्रवञ्चयन् छलयन् द्राग् झटिति पादयोर्गृहीत्वामुं दूरदूरं चिक्षेपिथ विससर्जिथ । अतिमूर्छितेन प्रवृद्धेन। आद्रुतः अभिपतितः ॥ ४ ॥

त्वं [३]वाहदण्डे कृतधीक्ष्च वाहादण्डं न्यधास्तस्य मुखे तदानीम् ।
तद्धृद्धिरुद्ध श्वसनो गतासुः सप्तीभवन्नप्ययमैक्यमागात् ॥ ५ ॥

 त्वमिनि । वाहदण्डे अश्वववधे । बाहादण्डं भुजदण्डम् । तद्द्वृद्ध्या बाहादण्डवृद्धया । सप्तभिवन् अश्वीभन्नपि भगवत्यैक्यं सायुज्यम् । वाहदण्डे कृतधीरपि बाहादण्डमिति विरोधश्च द्योत्यते ॥ ५ ॥


  1. 'त्वां' क. ख. पाठ:.
  2. 'स्वां' ख. पाठः.
  3. 'बा' घ. पाठः.