पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/२५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
म् - ७१]
२८३
व्योमासुरवधवर्णनम् ।


आलम्भमात्रेण पशोः सुराणां प्रसादके नून्न इवाश्वमेधे ।
कृते त्वया हर्षवशात् सुरेन्द्रास्त्वां तुटुयुः केशवनामधेयन् ॥ ६ ॥

 आलम्भेति । अश्वमेधयागे हि पशुमालभ्य तेन यजने कृत एव देवानां प्रसादः स्यात् । इह त्वालम्भमात्रेण अश्वहिंसामात्रेण सुराणां प्रसाहो जातः । अतो नूत्ने अपूर्वे अश्वमेधयागे अश्ववधे वा कृते ततः केशवनामधेयं त्वां तुष्टुवुः ॥ ६ ॥

कंसाय ते शौरिसुतत्वप्रुक्त्वा तं तद्धोत्कं प्रतिरुध्य वाचा ।
प्राप्तेन केशिक्षपणावसाने श्रीनारदेन त्वमभिष्टुतोऽभूः ॥ ७ ॥

 कंसायेति । नायं कृष्णो नन्दसुतः, किन्तु देवक्या अष्टममुत इति ते शौरिसुतत्वमुक्त्वा ततन्तद्वधोत्कं वसुदेववधोघुक्तं कंसं वाचा प्रतिरुध्य केशिक्षपणावसाने प्राप्तेन ॥ ७ ॥

कदापि गोपैः सह काननान्ते निलायनक्रीडनलोलुनं त्वाम् ।
मयात्मजः प्राप दुरन्तमायो व्योमाभिधो व्योमचरोपरोधी ॥ ८ ॥

 कदापीति । निलायनक्रीडने तिरोधाननिरीक्षणत्पर्श नरूपे सश्रद्धम् । व्योमचरोपरोधी देवशत्रुः ॥ ८ ॥

स चोरपालायितवल्लवेषु चोरायितो गोपशिशुन् पशूंध ।
गुहासु कृत्वा पिदधे शिलाभिस्त्वया च बुद्ध्वा परिमर्दितोऽभूत् ॥९॥

 स इति । केचिद् वल्लवाश्चोरायिताः । केचित् पालायिताः । मयपुत्रस्तु गोपवेषधारी चोरायितः पशून् गोपशिशुंश्च पर्वतगुहासु कृत्वा निक्षिप्य पिद्धे बबन्ध । त्वया परिमर्दितो निगृहीतः ॥ ९ ॥

एवंविधैश्चाद्रुतकेलिभेदैरानन्दमूर्छामतुलां व्रजस्य ।
पदे पदे नूतनयन्नसीमं परात्मरूपिन्! पवनेश! पायाः ॥ १० ॥