पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/२६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४४
[स्कन्धः - १०
नारायणीये


 एवंविधैरिति । आनन्दस्य मूर्छी वृद्धिं पदे पदे अनुक्षणम् असीमं निरवधि । अत्र हेतुः परात्मरूपीति ॥ १० ॥

इति केशिवधवर्णनं व्योमासुरवधवर्णनं च

एकसप्ततितमं दशकम् ।


 अथ कंसवधमाह दशकचतुष्टयेन-

कंसोऽथ नारदगिरा व्रजवासिनं त्वा-
 माकर्ण्य दीर्णहृदयः स हि गान्दिनेयम् ।
आहूय कार्मुकमखच्छलतो भवन्त-
 मानेतुमेनमहिनोदहिनाथशायिन् ! ॥ १ ॥

कंस इति । विष्णुस्त्वद्वधार्थं देवक्यां जातो नन्दव्रजे वसतीति नारदस्य गिरा दीर्णहृदयश्चकितमतिः गान्दिनेयम् अक्रूरं कार्मुकमखच्छलतो धनुर्यागनिरीक्षणार्थमिति व्याजेन अहिनोत् प्रेषयामास ॥ १ ॥

अक्रूर एष भवदङ्घ्रिपरश्चिराय
 त्वदर्शनाक्षममनाः क्षितिपालभीत्या ।
तस्याज्ञयैव पुनरीक्षितुमुद्यतस्त्वा-
 मानन्दभारमतिभूरितरं बभार ॥ २ ॥

 अक्रूर इति । भवदङ्घ्रिपरः भवद्भक्तः क्षितिपालभीत्या कंसभयेन अहं कृष्णदर्शनाक्षम इति मनो यस्य स त्वद्दर्शनाक्षममनाः ॥ २ ॥

सोऽयं रथेन सुकृती भवतो निवासं
 गच्छन् मनोरथगणांस्त्वयि धार्यमाणान् ।
आस्वादयन् मुहुरपायभयेन दैवं
 संप्रार्थयन् पथि न किञ्चिदपि व्यजानात् ॥ ३ ॥

 स इति । त्वयि त्वद्वित्रये मनोरथगणान् दर्शनस्पर्शनादिरूपान् मनसा घार्यमाणान् आस्वादयन् अपायभयेन स्वस्य कंसभृत्यतादिहेतुकेन मगवदर्शनाभा-