पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/२६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् - ७२]
२५५
अक्रूरस्य गोकुलयात्रावर्णनम् ।


वभयेन ममाद्य श्रीकृष्णदर्शनं भूयादिति दैवं प्रार्थयन् । एवं पथि त्वामेव चिन्तयन् नान्यत् किञ्चिदपि व्यजानात् ॥ ३ ॥

 तदेवाह -

द्रक्ष्यामि वेदशतगीतगतिं पुमांसं
 स्पक्ष्यामि किंस्विदपिनाम परिष्वजेय ।
किं वक्ष्यते स खलु मां क नु वीक्षितः स्या-
 दित्थं निनाय स भवन्मयमेव मार्गम् ॥ ४ ॥

 द्रक्ष्यामीति । वेदशतैः उपनिषद्भिः गीता प्रतिपादिता गतिः स्वरूपं यस्य तं पुमांसं पुरुषं किंस्विद् द्रक्ष्यामि स्प्रक्ष्यामि स्पर्शनसुखमनुभवामि । अपिनामैवं भूयात् । स खलु भगवान् मां कृताञ्जलिं 'हे अदूरेति किं वक्ष्यते । क्व नु कस्मिन् प्रदेशे मया स वीक्षितः स्यात् । इत्थं भवत्स्मरणनैरन्तर्येण तदालम्बनतया भवन्मयं मार्ग निनाय अतिक्रान्तवान् ॥ ४ ॥

भूयः क्रमादभिविशन् भवदघ्रिपूतं
 बृन्दावनं हरविरिञ्चसुरा[१]भिवन्द्यम् ।
आनन्दमन इव लग्न इव प्रमोहे
 किं किं दशान्तरमवाप न पङ्कजाक्ष ! ॥ ५ ॥

 भूय इति । प्रमोहे लग्नो बहिर्विकाराभावान्मूढ इव किं किं दशान्तरं नावाप ॥ ५ ॥

पश्यन्नवन्दत भवद्विवृतिस्थलानि
 पांसुष्ववेष्टत भवच्चरणाङ्कितेषु ।
किं ब्रूमहे बहुजना हि तदापि जाता
 एवं तु भक्तितरला विरलाः परात्मन् ! ॥ ६ ॥

 पश्यन्निति । भवद्विहृतिस्थलानि क्रीडा स्थानानि अवन्दत । भवच्चरणाङ्कितेषु पां-


  1. 'दि' क. पाठः.