पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/२४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् - ६५]
२२५
रासक्रीडावर्णनम् ।


तदिह पशुपरूपी त्वं हि साक्षात् परात्म [१] न् !
 पवनपुरनिवासिन्! पाहि मामामयेभ्यः ॥ १० ॥

इति गोविन्दपट्टाभिषेकवर्णनं वरुणलोकाद नन्दानयनवर्णनं च

चतुष्पष्टितमं दशकम् ।


गोपीजनाय कथितं नियमावसाने
 मारोत्सवं त्वमथ साधयितुं प्रवृत्तः ।
सान्द्रेण चान्द्रमहसा शिशिरीकृताशे
 प्रापूरयो मुरलिकां यमुनावनान्ते ॥ १ ॥

 गोपीति । नियमावसाने गिरिजार्चनव्रतसमाप्तौ कथितं प्रतिज्ञातं मारोत्सवं रासक्रीडादि । यमुनावनान्ते स्थित्वा मुरलिकां वेणुं प्रापूरयः उदैरयः ॥

सम्पूर्छनाभिरुदितस्वरमण्डलाभिः
 सम्मूर्छयन्तमखिलं भुवनान्तरालम् ।
त्वद्वेणुनादमुपकर्ण्य विभो ! तरुण्य-
 स्तत्तादृशं कमपि चित्तविमोहमापुः ॥ २ ॥

 सम्मूर्छनाभिरिति । उदितानि स्वरमण्डलानि प्रयोगभेदाः यासु ताभिः सम्मूर्छनाभिः आरोहावरोहणरूपैः सप्तभिः स्वरै 'क्रमयुक्ताः स्वराः सप्त मूर्छनाः परिकीर्तिताः' इत्युक्तेः । सम्मूर्छयन्तं मोहयन्तम् । तत्तादृशम् अनुपमम् ॥ २ ॥

ता गेहकृत्यनिरतास्तनयप्रसक्ताः
 कान्तोपसेवनपराश्च सरोरुहाक्ष्यः ।
सर्वं विसृज्य मुरलीरवमोहितास्ते
 कान्तारदेशमयि कान्ततनो ! समेताः ॥ ३ ॥


  1. 'त्मा' ग. घ. ङ. च. पाठः.