तदिह पशुपरूपी त्वं हि साक्षात् परात्म [१] न् ! |
इति गोविन्दपट्टाभिषेकवर्णनं वरुणलोकाद नन्दानयनवर्णनं च
चतुष्पष्टितमं दशकम् ।
गोपीजनाय कथितं नियमावसाने |
गोपीति । नियमावसाने गिरिजार्चनव्रतसमाप्तौ कथितं प्रतिज्ञातं मारोत्सवं रासक्रीडादि । यमुनावनान्ते स्थित्वा मुरलिकां वेणुं प्रापूरयः उदैरयः ॥
सम्पूर्छनाभिरुदितस्वरमण्डलाभिः |
सम्मूर्छनाभिरिति । उदितानि स्वरमण्डलानि प्रयोगभेदाः यासु ताभिः सम्मूर्छनाभिः आरोहावरोहणरूपैः सप्तभिः स्वरै 'क्रमयुक्ताः स्वराः सप्त मूर्छनाः परिकीर्तिताः' इत्युक्तेः । सम्मूर्छयन्तं मोहयन्तम् । तत्तादृशम् अनुपमम् ॥ २ ॥
ता गेहकृत्यनिरतास्तनयप्रसक्ताः |
- ↑ 'त्मा' ग. घ. ङ. च. पाठः.