पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/२४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२२४
[स्कन्धः - १०
नारायणीये


कदाचिदन्तर्यमुनं प्रभाते स्नायन् पिता वारुणपूरूपेण ।
नीतस्तमानेतुमगाः पुरीं त्वं तां वारुणीं कारणमर्त्यरूपः ॥ ६ ॥

 कदाचिदिति । अन्तर्यमुनं यमुनायाम् | वारुणपूरुषेण वरुणदूतेन । कारणमर्त्यरूपः भूभारहरणायोपात्तमनुष्यदेहो वारुणीं पुरीमगाः ॥ ६ ॥

ससम्भ्रमं तेन जलाधिपेन प्रपूजितस्त्वं प्रतिगृह्य तातम् ।
उपागतस्तत्क्षणमात्मगेहं पितावदत् तच्चरितं निजेभ्यः ॥ ७ ॥

 ससम्भ्रममिति । जलाधिपेन वरुणेन ससम्भ्रमं त्वदर्शनजातसम्भ्रमं प्रपूजितः । तातं नन्दम् । तच्चरितं नन्दहरणरूपम् ॥ ७ ॥

हरिं विनिश्चित्य भवन्तमेतान् भवत्पदालोकनबद्धतृष्णान् ।
निरीक्ष्य विष्णो[१] ! परमं पदं तद् दुरापमन्यैस्त्वमदीदृशस्तान् ॥ ८ ॥

 'हरिमिति । एवमादिप्रभावैर्भवन्तं हरिं विनिश्चित्य भवतः पदं परं ब्रह्म, तदालोकने बद्धतृष्णान् परमं पदं ब्रह्म अदीदृशः प्रदर्शयामासिथ ॥ ८ ॥

स्फुरत्परानन्दरसप्रवाहपूर्णकैवल्यमहापयोधौ ।
चिरं निमग्नाः खलु गोपसङ्घास्त्वयैव भूमन् ! पुनरुद्धृतास्ते ॥ ९ ॥

 स्फुरदिति । परमानन्दामृतप्रवाहपूर्णे कैवल्याख्ये महार्णवे ॥ ९ ॥

 त्वं श्रीकृष्णः साक्षात् परमात्मैव, भक्तेभ्यः करामलकवत् स्वस्वरूपब्रह्मप्रदर्शकत्वादित्याह-

करबदरवदेवं देव! कुत्रावतारे
 निजपदमनवाप्यं दर्शितं भक्तिभाजाम् ।


  1. 'ष्णोः' क. पाठः.