कदाचिदन्तर्यमुनं प्रभाते स्नायन् पिता वारुणपूरूपेण । |
कदाचिदिति । अन्तर्यमुनं यमुनायाम् | वारुणपूरुषेण वरुणदूतेन । कारणमर्त्यरूपः भूभारहरणायोपात्तमनुष्यदेहो वारुणीं पुरीमगाः ॥ ६ ॥
ससम्भ्रमं तेन जलाधिपेन प्रपूजितस्त्वं प्रतिगृह्य तातम् । |
ससम्भ्रममिति । जलाधिपेन वरुणेन ससम्भ्रमं त्वदर्शनजातसम्भ्रमं प्रपूजितः । तातं नन्दम् । तच्चरितं नन्दहरणरूपम् ॥ ७ ॥
हरिं विनिश्चित्य भवन्तमेतान् भवत्पदालोकनबद्धतृष्णान् । |
'हरिमिति । एवमादिप्रभावैर्भवन्तं हरिं विनिश्चित्य भवतः पदं परं ब्रह्म, तदालोकने बद्धतृष्णान् परमं पदं ब्रह्म अदीदृशः प्रदर्शयामासिथ ॥ ८ ॥
स्फुरत्परानन्दरसप्रवाहपूर्णकैवल्यमहापयोधौ । |
स्फुरदिति । परमानन्दामृतप्रवाहपूर्णे कैवल्याख्ये महार्णवे ॥ ९ ॥
त्वं श्रीकृष्णः साक्षात् परमात्मैव, भक्तेभ्यः करामलकवत् स्वस्वरूपब्रह्मप्रदर्शकत्वादित्याह-
करबदरवदेवं देव! कुत्रावतारे |
- ↑ 'ष्णोः' क. पाठः.