पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/२३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् - ६४]
२२३
गोविन्दपट्टाभिषेकवर्णनम् ।


आलोक्य शैलोद्धरणादिरूपं प्रभावमुच्चैस्तव गोपलोकाः ।
विश्वेश्वरं त्वामभिमत्य विश्वे नन्दं भवज्जातकमन्वपृच्छन् ॥ १ ॥

 आलोक्येति । विश्वे सर्वे गोपालकास्तवोच्चैः उत्कृष्टं प्रभावमालोक्य [१]त्वां विश्वेश्वरमवबुध्य नन्दं प्रति भवतो जातकमन्वपृच्छन् ॥ १ ॥

गर्गोदितो निर्गदितो निजाय वर्गाय तातेन तव प्रभावः ।
पूर्वाधिकस्त्वय्यनुराग एपामैधिष्ट तावद् बहुमानभारः ॥ २ ॥

 गर्गोदित इति । तातेन नन्देन गर्गोदितः 'जेप्यति बहुतरदैत्यान्' (द.४४. क्ष्लो. ८) इत्येवंरूपः तव प्रभावो निजाय वर्गाय गोपसमूहाय निर्गदित उपदिष्टः ॥

ततोऽवमानोदिततत्त्ववोधः सुराधिराजः सह दिव्यगव्या |
उपेत्य तुष्टाव स नष्टगर्वः स्पृष्ट्वा पदाव्जं मणिमौलिना ते ॥ ३ ॥

 तत इति । ततः अवमानेन पराजयेन उदिततत्त्वबोध: मदर्थमवतीर्णो मत्स्वाम्ययमिति | दिव्यगवी सुरभिः, तथा सह् ॥ ३ ॥

स्नेहस्तुतैस्त्वां सुरभिः पयोभिर्गोविन्दनामाङ्कितमभ्यपिञ्चत् ।
ऐरावतोपाहृतदिव्यगङ्गापाथोभिरिन्द्रोऽपि च जातहर्षः ॥ ४ ॥

 स्नेहेति । स्नेहेन स्नुतैः क्षरितैः सुरभिरभ्यषिञ्चद् अत एव गोविन्दनामाङ्कितम् इन्द्रोऽपि दिव्यगङ्गायाः पाथोभिः जलैः ॥ ४ ॥

जगत्त्रयेशे त्वयि गोकुले[२]शतयाभिषिक्ते सति गोपवाटः ।
नाकेऽपि वैकुण्ठपदेऽप्यलभ्यां श्रियं प्रपेदे भवतः प्रभावात् ॥ ५ ॥

 जगदिति । त्वयि गोकुलेशतयाभिषिक्ते सति गोपवाटो व्रजः नाके स्वर्गे ॥


  1. ‘त्वामभिमत्योद्दिश्य न' ख, ग. पाठः.
  2. 'शे तथाभि' ग. घ, ङ. च. पाठः.