पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/२३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२२२
[स्कन्धः- १०
नारायणीये


अहह धाष्टर्यममुष्य वटोर्गिरिं व्यथितबाहुरसाबवरोपयेत् ।
इति हरिस्त्वयि वद्धविगर्हणो दिवससप्तकमुग्रमवर्षयत् ॥ ७ ॥

 अहहेति । व्यथितः प्राप्तसादो बाहुर्यस्य । अवरोपयेद् अधः स्थापयेत् । बद्धविगर्हणः सञ्जातनिन्दः हरिः इन्द्रः दिवससप्तकमुग्रमवर्षयत् ॥ ७ ॥

अचलति त्वयि देव ! पदात् पदं गलितसर्वजले च धनोत्करे ।
अपहृते मरुता मरुतां पतिस्त्वदभिशङ्कितधीः समुपाद्रवत् ॥ ८ ॥

 अचलतीति । त्वयि पदात् स्वस्थानात् पदप्रमाणं देशमपि अचलाति अगच्छति सति गलितसर्वजले निस्सारे अत एव मरुता वायुना अपहृते त्वत्सकाशादू[१] अभिशङ्कितधीर्भीतः । अथवा त्वदभिशङ्किता विष्णुः स्वयमयमिति सशङ्का धर्यिस्य । समुपाद्रवत् सम्प्राप्तवान् ॥ ८ ॥

शममुपेयुषि वर्षभरे तदा पशुपधेनुकुले च विनिर्गते ।
भुवि विभो ! समुपाहितभूधरः प्रमुदितैः पशुपैः परिरेभिषे ॥ ९ ॥

 शममिति । उपेयुषि प्राप्तवति । भुवि समुपाहितभूधरः यथास्थानं निक्षिप्तगोवर्धनः त्वं परिरेभिषे आक्ष्लिष्टोऽभूः ॥ ९ ॥

धरणिमेव पुरा धृतवानसि क्षितिधरोद्धरणे तव कः श्रमः
इति नुतस्त्रिदशैः कमलापते! गुरुपुरालय ! पालय मां गदात् ॥ १० ॥

 धरणिमिति । पुरा वराहावतारे ॥ १० ॥

इति गोवर्धनोद्धरणवर्णनं त्रिषष्टितमं दशकम् ।


  1. ’त् त्वद् अ ’ ख. पाठः.