पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/२४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२२६
[स्कन्धः - १०
नारायणीये


 ता इति । कान्तोपसेवनपराः भर्तृशुश्रूषापराः ॥ ३ ॥

काक्ष्चिनिजाङ्गपरिभूषणमादधाना
 वेणुप्रणादमुपकर्ण्य कृतार्धभूषाः ।
त्वामागता ननु तथैव विभूषिताभ्य-
 स्ता एव संरुरुचिरे तव लोचनाय ॥ ४ ॥

 काचिदिति । निजाङ्गपरिभूषणं सर्वावयवभूषणम् आदधानाः कुर्वत्यः वेणुप्रणादमुपकर्ण्य त्वामागताः प्राप्ताः काश्चित् । कृतार्धभूषाः वेणुप्रणादमुपकर्ण्य तथैव कृतार्धभूषा एवागताः । तत्र विभूषिताभ्यः सर्वावयवभूषणसविलम्बाभ्यः ताः कृतार्धभूषा एव एता मत्प्रेमातिशयेन विस्मृतभूषणवैकल्या अहो इति ननु तव लोचनाय संरुरुचिरे तव नयनरुचिविषया बभूवुरित्यर्थः ॥ ४ ॥

हारं नितम्बभुवि काचन धारयन्ती
 काञ्चीं च कण्ठभुवि देव! समागता त्वाम् ।
हारित्वमात्मजघनस्य मुकुन्द! तुभ्यं
 व्यक्तं बभाष इव मुग्धमुखी विशेषात् ॥ ५ ॥

 हारमिति । हारोऽस्त्यस्मिन्निति हारी, तत्त्वं हारित्वं मनोहरत्वं च आत्मनः स्वस्य जघनस्य विशेषान्मनोहरत्वं मुग्धमुखी तुभ्यं भवते बभाष इव ॥ ५ ॥

काचित् कुचे पुनरसज्जितकञ्चुलीका
 व्यामोहतः परवधूभिरलक्ष्यमाणा ।
त्वामाययौ निरुपमप्रणयातिभार-
 राज्याभिषेकविधये कलशीधरेव ॥ ६ ॥

 काचिदिति । असज्जितकञ्चुलीका असंयोजितमात्रिका । तस्याः परवधूनां च व्यामोहतः । निरुपमेति । प्रणयातिशयरूपे राज्येऽवस्थाप्याभिषेकाय कुचभररूपकलशीघरेव ॥ ६ ॥