पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/२४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् - ६५]
२२७
रासक्रीडावर्णनम् ।


काक्ष्चिद् गृहात् किल निरेतुमपारयन्त्य-
 स्त्वामेव देव ! हृदये सुदृढं विभाव्य ।
देहं विधूय परचित्सुखरूपमेकं
 त्वामाविशन् परमिमा ननु धन्यधन्याः ॥ ७ ॥

 काक्ष्चिदिति । काश्चिद् बन्धुभिर्निषिध्यमानतया गृहाद् निरेतुं निर्गन्तुम् अपारयन्त्यः अशक्ताः त्वां सुदृढं विभाव्य समाधाय देहं स्थूलं सूक्ष्मं च विधूय त्यक्त्वा । परचिदिति । सच्चिदानन्दाद्वयं परं ब्रह्माविशन् | धन्यधन्याः अतिशयेन भाग्यवत्यः ॥ ७॥

जारात्मना न परमात्मतया स्मरन्त्यो
 नार्यो गताः परमहंसगतिं क्षणेन ।
तत् त्वां प्रकाशपरमात्मतनुं कथञ्चि-
 च्चित्ते वहन्नमृतमश्रममक्ष्नुवीय ॥ ८ ॥

 जारात्मनेति । जारात्मना जारबुद्ध्या न परमात्मतया किन्तु केवलमनुष्यबुद्धचा त्वां स्मरन्त्यो नार्यो गोप्यः परमहंसानाम् आत्मानात्मविवेकिनां गतिं मोक्षं गताः प्राप्ता इति यत् तत् तस्मात् प्रकाशपरमात्मतनुं प्रकटीकृतब्रह्मस्वरूपं त्वां कथाञ्चित् कामाद् द्वेषाद् भयाद्वा चित्ते वहन् चिन्तयन् अमृतं मोक्षम् अश्नुवीय प्राप्नुयाम् ॥ ८ ॥

अभ्यागताभिरभितो व्रजसुन्दरीभि-
 र्मुग्धस्मितार्द्रवदनः करुणावलोकी ।
निस्सीमकान्तिजलधिस्त्वमवेक्ष्यमाणो
 विश्वैकहृद्य ! हर मे परमेश ! रोगान् ॥ ९ ॥

 अभ्यागताभिरिति । हे विश्वैकहृद्य ! अभितोऽभ्यागताभिः परिवार्य स्थिताभिः अवेक्ष्यमाणः कटाक्षपात्रीभूतः ॥ ९ ॥

इति रासक्रीडायां गोपीनां भगवत्समीपगमनवर्णनं

पञ्चषष्टितमं दशकमेकोनम् ।