पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/२४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२२८
[स्कन्धः - १०
नारायणीये


उपयातानां सुदृशां कुसुमायुधवाणपातविवशानाम् ।
अभिवाञ्छितं विधातुं कृतमतिरपि ता जगाथ वाममिव ॥ १ ॥

 उपयातानामिति । उपयातानां समीपं प्राप्तानां सुदृशां सुन्दरीणाम् अभिवाञ्छितं मारोत्सवं विधातुं कर्तुं कृतमतिर्निश्चितबुद्धिरपि प्रथमं ताः गोपीः वामं प्रतिकूलमिव जगाथ उक्तवान् ॥ १ ॥

गगनगतं मुनिनिवहं श्रावयितुं जगिथ कुलवधूधर्मम् ।
धर्म्य खलु ते वचनं कर्म तु नो निर्मलस्य विश्वास्यम् ॥ २ ॥

 गगनेति । जगिथ उक्तवान् । नन्वनुपनीतस्य कुलवधूभिः कामोत्सवोऽधर्मस्तत्कर्त्रा प्रोक्त कुलवधूधर्मे कथं मुनीनां विश्वास इत्याशङ्कायामाह – धर्म्यं खल्विति । ते ईश्वरस्य वचनं धर्म्यं धर्मादनपेतम् । कर्म तु नो विश्वास्यम् । क्वाचिदधर्मरूपमपि भवति । तेन तव न दोषः, यतो निर्मल:, निर्गुणत्वात् कर्मानधिकारी त्वम् ॥ २ ॥

आकर्ण्य ते प्रतीपां वाणीमेणीदृशः परं दीनाः ।
मा मा करुणासिन्धो! परित्यजेत्यतिचिरं विलेपुस्ताः ॥ ३ ॥

 आकर्ण्येति । ते तव प्रतीपां 'भवतीनां निशि भर्तॄन् विरय्येह मत्समीपागमनम् अनुचितम् । अतस्त्वरितमात्मगृहं याते त्यादिरूपतया प्रतिकूलाम् । दीनाः क्षीणमानसा मा मास्मान् परित्यजेति विलेपुः रोदनपूर्वकमुक्तवत्यः ॥ ३ ॥

तासां रुदितैर्लपितैः करुणाकुलमानसो मुरारे! त्वम् ।
ताभिः समं प्रवृत्तो यमुनापुलिनेषु काममभिरन्तुम् ॥ ४ ॥

 तासामिति । लपितैर्वचनैश्च । ताभिः समं सह कामं यथेच्छम् अभिरन्तुं क्रीडितुं प्रवृत्तः आरब्धः ॥ ४ ॥

चन्द्रकरस्यन्दलसत्सुन्दरयमुनातटान्तवीथीषु ।
गोपीजनोत्तरीयैरापादितसंस्तरो न्यषीदस्त्वम् ॥ ५ ॥