पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/२४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् - ६६]
२२९
रासक्रीडावर्णनम् ।


 चन्द्रेति । चन्द्रकरस्यामृतमयस्य स्यन्दो द्रवः तेन लसन्तीषु सुन्दरीषु यमुनातीरस्थलीषु गोपीजनानामुत्तरीयैरापादित उत्पादितः संस्तरो विष्टरो यस्य स त्वं न्यषीद उपविष्टोऽभूः ॥ ५ ॥

सुमधुरनर्मालपनैः करसंग्रहणैक्ष्च चुम्वनोल्लासैः ।
गाढालिङ्गनसङ्गैस्त्वमङ्गनालोकमाकुलीचकृपे ॥ ६ ॥

 सुमधुरेति । सुमधुरैः श्रोत्रानन्दैः नर्मालपनैः क्रीडावचनैः । गाढालिङ्गनैः क्षीरनीरवदङ्गप्रत्यङ्गसंक्ष्लषणैः : आकुलीकृषे द्रावयामासिथ ॥ ६ ॥

वासोहरणदिने यद् वासोहरणं प्रतिश्रुतं तासाम् ।
तदपि विभो! रसविवशस्वान्तानां कान्तसुभ्रुवामदधाः ॥ ७ ॥

 वास इति । वासोहरणदिने गिरिजार्चनसमाप्तिदिने प्रतिश्रुतं प्रतिज्ञातं वासोहरणं तासां नितम्बप्रदेशाद् वसनाक्षेपम् अदधाः कृतवान् ॥ ७ ॥

कन्दलितधर्मलेशं कुन्दमृदुस्मेरवऋपाथोजम् ।
नन्दसुत ! त्वां त्रिजगत्सुन्दरमुपगृह्य नन्दिता वालाः ॥ ८ ॥

 कन्दलितेति । कन्दलिता अङ्कुरिताः घर्मलेशाः स्वेदबिन्दवो यस्मिन् । कुन्दकुसुमवद् मृदुस्मेरम् अल्पस्मितं वऋपाथोजं वदनपद्मं यस्य । नन्दिता हृष्टाः ॥ ८ ॥

विरहेष्वङ्गारमयः शृङ्गारमयश्च सङ्गमेऽपि त्वम् ।
नितरामङ्गारमयस्तत्र पुनः सङ्गमेऽपि चित्रमिदम् ॥ ९ ॥

 विरहेष्विति। शृङ्गारमयः शृङ्गाररसोचितभाषावेषव्यापारस्त्वं विरहेषु स्त्रीणामङ्गारमयो दहनरूपश्च सन्तापकरत्वात् । सङ्गमेऽपि त्वं नितरामङ्गारमय इतीदं चित्रम् । हे अङ्ग! त्वं नितरामरमय इत्येवार्थः ॥ ९ ॥