पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/२४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२३०
[स्कन्धः - १०
नारायणीये


 तासु राधायां भगवतः प्रेमातिशयात् सविशेषं तामभिरमयन्तं भगवन्तं प्रार्थयते--

राधातुरूपयोधरसाधुपरीरम्भलोलुपात्मानम् ।
आराधये भवन्तं पवनपुराधीश ! शमय सकलगदान् ॥ १० ॥

इति रासक्रीडायां गोपीनां भगवत्कृतधर्मोपदेशवर्णनं यमुनापुलिने

भगवता सह विहारवर्णनं च

षट्षष्टितमं दशकम् ।


स्फुरत्परानन्दरसात्मकेन त्वया समासादितभोगलीलाः ।
असीममानन्दभरं प्रपन्ना महान्तमापुर्मदमम्बुजाक्ष्यः ॥ १ ॥

 स्फुरदिति । स्फुरत्परानन्दरस आत्मा मूर्तिर्यस्य तेन त्वया समासादिता प्राप्ता भोगलीला रतिक्रीडा याभिः । असीमम् अनवधिम् आनन्दरसं रतिसुखापरपर्यायं ब्रह्मानन्दं प्रपन्ना महान्तं मदमापुः ॥ १ ॥

 तत्प्रकारमाह ---

निलीयतेऽसौ मयि मय्यमायं रमापतिर्विश्वमनोभिरामः ।
इतिस्म सर्वाः कलिताभिमाना निरीक्ष्य गोविन्द ! तिरोहितोऽभूः ॥ २ ॥

 निलीयत इति । असौ कृष्णो मय्यमायं निर्व्याजं निलीयते सक्तो भवति । अन्यासु सौजन्याद्यर्थं मायया प्रणयवानिव | अन्या मयि निलीयते । इति कलितो धृतोऽभिमानो यासां ता निरीक्ष्य तिरोहितोऽन्तर्हितोऽभूः ॥ २ ॥

राधाभिधां तावदजातगर्वामतिप्रियां गोपवधूं मुरारे ! ।
भवानुपादाय गतो विदूरं तया सह स्वैरविहारकारी ॥ ३ ॥

 राधेति । अजातगर्वतयातिप्रियाम् ॥ ३ ॥

तिरोहितेऽथ त्वाय जाततापाः समं समेताः कमलायताक्ष्यः ।
बने बने त्वां परिमार्गयन्त्यो विषादमापुर्भगवन्नपारम् ॥ ४ ॥