पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/२४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् - ६७]
२३१
रासक्रीडावर्णनम् ।


 तिरोहित इति । समं जाततापास्तुल्यसन्तापाः समेताः सहिताः परिमार्गयन्त्योऽन्वेषमाणाः भवन्तं नापुः किन्तु विषादमापुः ॥ ४ ॥

 ता विषण्णतयाचेतनानपि भवन्तं पप्रच्छुरित्याह-

हा चूत ! हा चम्पक! कर्णिकार! हा मल्लिके! मालति! बालवल्ल्यः! ।
किं वीक्षितो नो हृदयैकचोर इत्यादि तास्त्वत्प्रवणा विलेपुः ॥ ५ ॥

 हा चूतेति । हे बालवल्ल्यः! युष्माभिर्नोऽस्माकं हृदयैकचोरः किं वीक्षितः । त्वत्प्रवणाः त्वदेकचित्ताः ॥ ५ ॥

निरीक्षितोऽयं सखि ! पङ्कजाक्षः पुरो ममेत्याकुलमालपन्ती ।
त्वां भावनाचक्षुषि वीक्ष्य काचित् तापं सखीनां द्विगुणीचकार ॥ ६ ॥

 निरीक्षित इति । हे साखि! अयं पङ्कजाक्षः कृष्णः मम पुरो निरीक्षितः प्रत्यक्षीकृतः। भावनाचक्षुषि सङ्कल्पात्मके चक्षुषि प्रत्यक्षमिव त्वां वीक्ष्य सखीनां तापम् आशाजननेन द्विगुणीचकार ॥ ६ ॥

त्वदात्मिकास्ता यमुनातटान्ते तवानुचक्रुः किल चेष्टितानि ।
विचित्य भूयोऽपि तथैव मानात् त्वया वियु[१]क्तां ददृशुक्ष्च राधाम् ॥ ७ ॥

 त्वदिति । त्वदात्मिकाः भावना[२]बलेन त्वन्मयतां गताः तव चेष्टितानि पूतनावधार्जुनभञ्जनादीनि अनुचक्रुः अनुकृतवत्यः । भूयोऽपि त्वां विचित्य अन्विप्य यथान्यासां तथैव मानाद् अहमस्यातिप्रियेत्यभिमानात् त्वया वियुक्तां राधां ददृशुः ॥ ७ ॥

ततः समं ता विपिने समन्तात् तमोवतारावधि मार्गयन्त्यः ।
पुनर्विमिश्रा यमुनातटान्ते भृशं विलेपुक्ष्च जगुर्गुणांस्ते ॥ ८ ॥

 तत इति । ततः समं तया सह ता गोप्यः वने समन्तात् पर्यन्ततः तमो- वतारावधि चन्द्रास्तमयपर्यन्तं [३]मार्गयन्त्यः अन्वेषमाणाः विमिश्राः सहिताः विलेपुः सप्रार्थनं सुस्वरं रुरुदुः ॥ ८ ॥


  1. 'मु' क. घ. पाठः.
  2. 'प्रकर्षण त्व' क. ग. पाठः.
  3. 'न्तं परिमा' ख. पाठः.