पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/२४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२३२
[स्कन्धः - १०
नारायणीये


तथाव्यथासंकुलमानसानां व्रजाङ्गनानां करुणैकसिन्धो ! ।
जगत्रयीमोहनमोहनात्मा त्वं प्रादुरासीरयि मन्दहासी ॥ ९ ॥

 तथेति । तथाभूतया अनिर्देश्यया व्यथया पीडया संकुलम् आकुलं मानसं यासाम् । जगत्रयीमोहनः काम: तस्यापि मोहन आत्मा मूर्तिर्यस्य स त्वं मन्दहासी सन् प्रादुरासीः ॥ ९ ॥

सन्दिग्धसन्दर्शनमात्मकान्तं त्वां वीक्ष्य तन्व्यः सहसा तदानीम् ।
किं किं न चक्रुः प्रमदातिभारात् स त्वं गदात् पालय मारुतेश! ॥१०॥

 सन्दिग्धेति । इतः परमपि नाम तं द्रक्ष्यामि[१] न वेति सन्दिग्धं सन्दर्शनं यस्य । प्रमदातिभाराद् हर्षावेशेन ॥ १० ॥

इति रासक्रीडायां गोपीनां मदापनोदाय भगवतस्तिरोधानवर्णनं

भगवदन्वेषणवर्णनं भगवदाविर्भाववर्णनं च

सप्तषष्टितमं दशकम् ।

तव विलोकनाद गोपिकाजनाः प्रमदसंकुलाः पङ्कजेक्षण ! ।
अमृतधारया संप्लुता इव स्तिमिततां दधुस्त्वत्पुरोगताः ॥ १ ॥

 तवेति । प्रभदसंकुलाः प्रमोदाकुलाः संप्लुताः अभिषिक्ताः स्तिमिततां निश्चलतां दधुः ॥ १ ॥

तदनु काचन त्वत्कराम्बुजं सपदि गृह्णती निर्विशङ्कितम् ।
धनपयोधरे सन्निधाय सा पुलकसंवृता तस्थुषी चिरम् ॥ २ ॥

 तदन्विति । सपदि दर्शनसमनन्तरमेव इतरासु स्थितासु निर्विशङ्कितं घने निबिडे पयोधरे त्वत्कराम्बुजस्पर्शजनितानन्दातिशयानुभावेन पुलकेन संवृता चिरं तस्थुषी स्थितवती ॥ २ ॥


  1. 'मीति' क. ख. पाठ:.