तथाव्यथासंकुलमानसानां व्रजाङ्गनानां करुणैकसिन्धो ! । |
तथेति । तथाभूतया अनिर्देश्यया व्यथया पीडया संकुलम् आकुलं मानसं यासाम् । जगत्रयीमोहनः काम: तस्यापि मोहन आत्मा मूर्तिर्यस्य स त्वं मन्दहासी सन् प्रादुरासीः ॥ ९ ॥
सन्दिग्धसन्दर्शनमात्मकान्तं त्वां वीक्ष्य तन्व्यः सहसा तदानीम् । |
सन्दिग्धेति । इतः परमपि नाम तं द्रक्ष्यामि[१] न वेति सन्दिग्धं सन्दर्शनं यस्य । प्रमदातिभाराद् हर्षावेशेन ॥ १० ॥
इति रासक्रीडायां गोपीनां मदापनोदाय भगवतस्तिरोधानवर्णनं
भगवदन्वेषणवर्णनं भगवदाविर्भाववर्णनं च
सप्तषष्टितमं दशकम् ।
तव विलोकनाद गोपिकाजनाः प्रमदसंकुलाः पङ्कजेक्षण ! । |
तवेति । प्रभदसंकुलाः प्रमोदाकुलाः संप्लुताः अभिषिक्ताः स्तिमिततां निश्चलतां दधुः ॥ १ ॥
तदनु काचन त्वत्कराम्बुजं सपदि गृह्णती निर्विशङ्कितम् । |
तदन्विति । सपदि दर्शनसमनन्तरमेव इतरासु स्थितासु निर्विशङ्कितं घने निबिडे पयोधरे त्वत्कराम्बुजस्पर्शजनितानन्दातिशयानुभावेन पुलकेन संवृता चिरं तस्थुषी स्थितवती ॥ २ ॥
- ↑ 'मीति' क. ख. पाठ:.