पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/२१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् - ५३]
१९७
धेनुकासुरवधवर्णनम् ।


उपक्रमस्यानुगुणैव सेयं मरुत्पुराधीश! तव प्रवृत्तिः ।
गोत्रापरित्राणकृतेऽवतीर्णस्तदेव देवारभथास्तदा यत् ॥ २ ॥

 उपक्रमस्येति । उपक्रमस्यारम्भस्यानुगुणा योग्या । गोत्रापरित्राणकृते भूमे रक्षणार्थम् । तदेव Sगोत्रापरित्राणं गोरक्षणम् ॥ २ ॥

कदापि रामेण समं वनान्ते वनश्रियं वीक्ष्य चरन् सुखेन ।
श्रीदामनाम्नः स्वसखस्य वाचा मोदादगा धेनुककाननं त्वम् ॥ ३ ॥

 कदेति । धेनुककाननं धेनुकासुरनिवासस्थानं तालवनम् ॥ ३ ॥

उत्तालतालीनिवहे त्वदुक्तया वलेन धृतेऽथ बलेन दोर्भ्याम् ।
मृदुः खरचाभ्यपतत् पुरस्तात् फलोत्करो धेनुकदानवोऽपि ॥ ४ ॥

 उत्तालेति । उत्तालेऽतिमहति तालीनिवहे तालवृक्षसमूहे बलेन शक्त्या दोर्भ्यां धूते चालिते पुरस्तात् प्रथमं मृदुरपरिणतः खरः परिणतः फलोत्करः फलसमूहोऽभ्यपतत् सम्भूयापतत् । अनन्तरं धेनुकदानवोऽपि तालफलपतनरवजनितक्रोधेन खररूप्यभ्यपतदभ्यधावत् ॥ ४ ॥

समुयतो घैनुकपालनेऽहं वधं कथं घैनुकमद्य कुर्वे ।
इतीव मत्वा ध्रुवमग्रजेन सुरौघरोद्धारमजीघतस्त्वम् ॥ ५॥

 समुद्यत इति । घैनुकस्य धेनुसमूहस्य पालने समुद्यत उत्साही धैनुकं वधं धेनुकासुरवधमिति प्रकृतोऽर्थः । कथं कुर्वे न करोमि ध्रुवं निश्चितमिति मत्वा निश्चित्येवाग्रजेन तमजीघतो घातितवानसि ॥ ५ ॥

तदीयभृत्यानपि जम्बुकत्वेनोपागतानग्रजसंयुतस्त्वम् ।
जम्बूफलानीव तदा निरास्थस्तालेषु खेलन् भगवन् ! निरास्थः ॥ ६ ॥

 तदीयेति । जम्बुकत्वेनोपागतान् जम्बुकाः क्रोष्टारो भूत्वागतान् । निरास्थ आस्थारहितः सन् निरास्थो निरसनं कृतवान् निगृहीतवान् ॥ ६ ॥


 $ 'इनित्रकट्यचश्च' (४-२-५१) इति त्रप्रत्ययः ।