सामग्री पर जाएँ

पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/२१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९६
[स्कन्धः - १०
नारायणीये


नारायणाकृतिमसङ्खयतमां निरीक्ष्य
 सर्वत्र सेवकमपि स्वमवेक्ष्य धाता ।
मायानिमग्नहृदयो विमुमोह याव-
 देको बभूविथ तदा कबलार्धपाणिः ॥ ९ ॥

 नारायणेति । सेवकं स्वमात्मानम् । मायायां निमग्नं मूढं हृदयं यस्य । यावद् बिमुमोहाचेतनप्रायोऽभूत् , तदा त्वं बहुरूपं संहृत्यैक: कबलार्धपाणिः श्रीकप्णरूपेण वत्सान्वेषणपरो बभूविथ ॥ ९ ॥

नक्ष्यन्मदे तदनु विश्वपतिं मुहुस्त्वां
 नत्वा च नूतवति धातरि धाम याते ।
पोतैः समं प्रमुदितैः प्रविशन्त्रिकेतं
 वातालयाधिप! विभो! परिपाहि रोगात् ॥ १० ॥

 नश्यदिति । []नूतवति स्तुतवति सति धाम सत्यलोकं याते गते च सति पोतैर्वत्सपालैः समं सह निकेतं गृहं प्रविशन् ॥ १० ॥

इति ब्रह्मकृतवत्सापहारवर्णनं भगवन्मायया ब्रह्मणो मोहवर्णनं च

द्विपश्चाशं दशकम् ।

अतीत्य वाल्यं जगतां पते ! त्वमुपेत्य पौगण्डवयो मनोज्ञम् ।
उपेक्ष्य वत्सावनमुत्सवेन प्रावर्तथा गोगणपालनायाम् ॥ १ ॥

 अतीत्येति । बाल्यं पञ्च वर्षाणि । पौगण्डवयो द्वितीयपञ्चकं मनोज्ञं बाल्यादतिमोहनं तदुपेत्य प्राप्य वत्सानामवनं रक्षणमुपेक्ष्योत्सवेन कौतुकेन गोगणपालनायां प्रावर्तथाः प्रवृत्तोऽभूः ॥ १ ॥


  1. ‘णू स्तवने' तुदादिः ।