पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/२११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् - ५२]
१९५
भगवन्मायया ब्रह्मणो मोहवर्णनम् ।


एवं प्रतिक्षणविजृम्भितहर्पभार-
 निश्शेषगोपगणलालितभूरिमृर्तिम् ।
त्वामग्रजोऽपि बुबुधे किल वत्सरान्ते
 ब्रह्मात्मनोरपि महान युवयोर्विशेषः ॥ ६ ॥

 एवमिति । प्रतिक्षणं विजृम्भितो वर्धितो हर्षभारः सन्तोपातिशयो येषां तेषां निश्शेषाणां गोपानां गणेन लालितभूरिमूर्ति तत्तद्गो[१] गोप्यात्मजरूपं त्वामग्रजः श्रीबलभद्रोऽपि (त्वद्भूरिमूर्तित्वं?) वत्सरान्ते संवत्सरावसाने बुबुधे । ब्रह्मात्मनोर्ब्रमस्वरूपयोरपि युवयोस्त्वं निष्कलं ब्रह्म अग्रजः सकलमिति महान् विशेषः ॥ ६ ॥

वर्षावधौ नवपुरातनवत्सपालान्
 दृष्ट्वा विवेकमसृणे द्रुहिणे विमृढे ।
प्रादीदृशः प्रतिनवान् मकुटाङ्गदादि-
 भूषांक्ष्चतुर्भुजयुजः सजलाम्बुदाभान् ॥ ७ ॥

 वर्षावधाविति । वर्षावधौ संवत्सरावसाने नवान् श्रीकृष्णमयान् पुरात नान् स्वेन तिरस्कृतान् वत्सान् वत्सपालांश्च दृष्ट्वा द्रुहिणे ब्रह्मणि विमूढे एते सत्या अन्ये मायामया इति सम्यग्ज्ञानरहिते विवेकमसृणे विचारयितुमप्यसमर्थे सति प्रतिनवान् मायामयान् मकुटाङ्गदादिविशिष्टान प्रादीदृशः प्रदर्शयानासिथ ॥ ७ ॥

प्रत्येकमेव कमलापरिलालिताङ्गान्
 भोगीन्द्रभोगशयनान् नयनाभिरामान् ।
लीलानिमीलितदृशः सनकादियोगि-
 व्यासेवितान् कमलभूर्भवतो ददर्श ॥ ८ ॥

 प्रत्येकमिति । लीलानिमीलितदृशोऽङ्गीकृतयोगनिद्रान् भवतो विष्णून् ददर्श ॥ ८ ॥


  1. 'द्गोपगो'. ख. ग. पाठः.