उपक्रमस्यानुगुणैव सेयं मरुत्पुराधीश! तव प्रवृत्तिः । |
उपक्रमस्येति । उपक्रमस्यारम्भस्यानुगुणा योग्या । गोत्रापरित्राणकृते भूमे रक्षणार्थम् । तदेव Sगोत्रापरित्राणं गोरक्षणम् ॥ २ ॥
कदापि रामेण समं वनान्ते वनश्रियं वीक्ष्य चरन् सुखेन । |
कदेति । धेनुककाननं धेनुकासुरनिवासस्थानं तालवनम् ॥ ३ ॥
उत्तालतालीनिवहे त्वदुक्तया वलेन धृतेऽथ बलेन दोर्भ्याम् । |
उत्तालेति । उत्तालेऽतिमहति तालीनिवहे तालवृक्षसमूहे बलेन शक्त्या दोर्भ्यां धूते चालिते पुरस्तात् प्रथमं मृदुरपरिणतः खरः परिणतः फलोत्करः फलसमूहोऽभ्यपतत् सम्भूयापतत् । अनन्तरं धेनुकदानवोऽपि तालफलपतनरवजनितक्रोधेन खररूप्यभ्यपतदभ्यधावत् ॥ ४ ॥
समुयतो घैनुकपालनेऽहं वधं कथं घैनुकमद्य कुर्वे । |
समुद्यत इति । घैनुकस्य धेनुसमूहस्य पालने समुद्यत उत्साही धैनुकं वधं धेनुकासुरवधमिति प्रकृतोऽर्थः । कथं कुर्वे न करोमि ध्रुवं निश्चितमिति मत्वा निश्चित्येवाग्रजेन तमजीघतो घातितवानसि ॥ ५ ॥
तदीयभृत्यानपि जम्बुकत्वेनोपागतानग्रजसंयुतस्त्वम् । |
तदीयेति । जम्बुकत्वेनोपागतान् जम्बुकाः क्रोष्टारो भूत्वागतान् । निरास्थ आस्थारहितः सन् निरास्थो निरसनं कृतवान् निगृहीतवान् ॥ ६ ॥
$ 'इनित्रकट्यचश्च' (४-२-५१) इति त्रप्रत्ययः ।