पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/२१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९८
[स्कन्धः -- १०
नारायणीये



विनिघ्नति त्वय्यथ जम्बुकौधं सनामकत्वाद्वरुणस्तदानीम् ।
भयाकुलो जम्बुकनामधेयं श्रुतिप्रसिद्धं व्यघितेति मन्ये ॥ ७ ॥

 विनिघ्नतीति । सनामकत्वात् स्वस्यापि जम्बुकनामकत्वात् ॥ ७ ॥

तवावतारस्य फलं मुरारे! सञ्जातमद्येति सुरैर्नुतस्त्वम् ।
सत्यं फलं जातमिहेति हासी बालः समं तालफलान्यभुङ्क्थाः ॥ ८॥

 तवेति । अवतारस्य फलं धेनुकनिग्रहः । तदद्य सञ्जातमिति सुरैर्नृतस्त्वं तव स्तुतिश्रवणात् सत्यं यथार्थवादिनो देवा इह फलं तालफलजातं जातम् ॥ ८ ॥

मधुद्रवस्चुन्ति बृहन्ति तानि फलानि मेदोभरभृन्ति भुक्त्वा ।
तृप्तैश्च द्दप्तैर्भवनं फलौंचं वहद्भिरागाः खलु वालकैस्त्वम् ॥ ९ ॥

 मधुद्रवेति । मधुद्रवः स्रवत्येभ्य इति तथा मेदोभरभृन्ति अन्तःसारवन्ति तालफलानि भुक्त्वा तृप्तैरत एव द्दप्तैरहङ्कृतैर्बन्धुभ्यो दातुं फलौघं स्कन्धोपनेयं भवनं वहद्भि प्रापयद्भिः ॥ ९ ॥

हतो हतो धेनुक इत्युपेत्य फलान्यदद्भिर्मधुराणि लोकैः ।
जयेति जीवेति नुतो विभो! त्वं मरुत्पुराधीश्वर! पाहि रोगात् ॥ १० ॥

 हत इति । हर्षातिशयेन हतो हत इति द्विरुक्तिः ॥ १० ॥

इति धेनुकासुरवधवर्णनं त्रिपञ्चाशं दशकम् ।


अथ दशकत्रयेण कालियमर्दनरूपं भगवच्चरितं कथयन् स्तौति--

त्वत्सेवोत्कः सौभरिर्नाम पूर्वे कालिन्यन्तर्द्वादशाब्दं तपस्यन् ।
मीनव्राते स्नेहवान् भोगलोले तार्क्ष्ये साक्षादैक्षताग्रे कदाचित् ॥ १ ॥

 त्वदिति । त्वत्सेवायामुक्क उत्सुकः सौभरिर्नाम मुनिर्भोगलोले इतरेतरस्नेहसुखपरे । साक्षात् प्रत्यक्षत एैक्षत दृष्टवान् ॥ १ ॥