पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/१९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् - ४५]
१७५
कृष्णस्य वालक्रीडावर्णनम् ।


अनुसरति जनौधे कौतुकव्याकुलाक्षे
 किमपि कृतनिनादं व्याहसन्तौ द्रवन्तौ ।
वलितवदनपद्मं पृष्ठतो दत्तदृष्टी
 किमिव न विदधाथे कौतुकं वासुदेव ! ॥ ३ ॥

 अन्विति । जनौघेऽनुसरति सति द्रवन्तौ वेगेन चरन्तौ ततो दूरस्थे जनौघे वलितवदनपद्मं तिर्यक्कृतमुखपद्मं यथा तथा पृष्ठतो दत्तदृष्टी, किमिवेति अतिशयेन कौतुकं विदधाथे अजनयतमित्यर्थः ॥ ३ ॥

द्रुतगतिषु पतन्तावृत्थितौ लिप्तपङ्कौ
 दिवि मुनिभिरपङ्कै: सस्मितं वन्द्यमानौ ।
द्रुतमथ जननीभ्यां सानुकम्पं गृहीतौ
 मुहुरपि परिरब्धौ द्राग् युवां चुम्बितौ च ॥ ४ ॥

 द्रुतेति । द्रुतगतिषु वेगेन सञ्चरणेषु व्रजकर्दमे पतन्तौ दिवि द्रष्टुमागतैर्मुनिभिरस्मानपङ्कीकर्तुं समर्थावेतौ स्वयं लिप्तपङ्कौ अधःपतनभयेन यावाश्रयामस्तौ स्वयं पतन्ताविति सस्मितम्, अहो भक्तपारतन्त्र्यमीश्वरयोरिति वन्द्यमानौ ॥ ४ ॥

स्नुतकुचभरमङ्के धारयन्ती भवन्तं
 तरलमति यशोदा स्तन्यदा धन्यधन्या ।
कपटपशुप! मध्ये मुग्धहासाङ्कुरं ते
 दशनमुकुलहृद्यं वीक्ष्य वक्रं जहर्ष ॥ ५ ॥

 स्नुतेति । स्नुतं प्रसृतस्तन्यं कुचयुगं यस्मिन्, तरला कृपाकुला मतिर्यस्मिन् इति च क्रियाविशेषणम् । तथा भवन्तमङ्के धारयन्ती या स्तन्यं ददाति, सा यशोदा धन्यधन्या । हे कपटपशुप! स्तनपानमध्ये ते दशनमुकुलैर्हृद्यं मुग्धो हासाङ्कुरो मन्दस्मितं यस्मिन् तद् वक्रं वीक्ष्य जहर्ष सन्तुष्टाभूत् ॥ १ ॥

तदनु चरणचारी दारकैः साकमारा-
 न्निलयततिषु खेलन् बालचापल्यशाली ।