पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/१९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७६
[स्कन्ध :- १०
नारायणी


भवनशुकबिडालान् वत्सकांक्ष्चानुधावन्
 कथमपि कृतहासैर्गोपकैर्वारितोऽभूः ॥ ६ ॥

 तदन्विति । आरात् समीपस्थासु निलयततिषु भवनान्तरेषु खेलन् गच्छन् ॥ ६ ॥

 गोपीनां भवदनुसरणैकचित्ततया गृहकृत्यादिष्वपि विस्मृतिर्जातत्याह-

हलधरसहितस्त्वं यत्र यत्रोपयातो
 विवशपतितनेत्रास्तत्र तत्रैव गोप्यः ।
विगलितगृहकृत्या विस्मृतापत्यभृत्या
 मुरहर ! मुहुरत्यन्ताकुला नित्यमासन् ॥ ७ ॥

 गोपीनां नवनीतादिपणेन त्वं तद्दर्शनार्थं नर्तनाद्यपि कृतवानसीत्याह-+

प्रतिनवनवनीतं गोपिकादत्तमिच्छन्
 कलपदमुपगायन् कोमलं क्कापि नृत्यन् ।
सदययुवतिलोकैरर्पितं सर्पिरश्नन्
 क्कचन नवविपक्कं दुग्धमप्यापिबस्त्वम् ॥ ८ ॥

मम खलु बलिगेहे याचनं जातमास्ता-
 मिह पुनरबलानामग्रतो नैव कुर्वे ।
इति विहितमतिः किं देव! सन्त्यज्य याच्यां
 दधिघृतमहरस्त्वं चारुणा चोरणेन ॥ ९ ॥

 ममेति । मम बलिगेहे प्राग् याचनं जातम् । तत्तु बलेर्बलित्वादेव नास्माकं दैन्यापादकमित्यास्तां खल्वेतत् । इह तद्विपरीतानामबलानामग्रतस्तन्न कुर्वे इति विहितमतिर्निश्चितचित्तश्चारुणा विचित्रोपायरचितेन चोरणेन स्तेयकर्मणा ॥ ९ ॥

तव दधिघृतमोषे घोषयोषाजनाना-
 मभजत हृदि रोषो नावकाशं न शोकः ।
हृदयमपि मुषित्वा हर्षसिन्धौ न्यधास्त्वं
 स मम शमय रोगान् वातगेहाधिनाथ! ॥ १० ॥