अनुसरति जनौधे कौतुकव्याकुलाक्षे |
अन्विति । जनौघेऽनुसरति सति द्रवन्तौ वेगेन चरन्तौ ततो दूरस्थे जनौघे वलितवदनपद्मं तिर्यक्कृतमुखपद्मं यथा तथा पृष्ठतो दत्तदृष्टी, किमिवेति अतिशयेन कौतुकं विदधाथे अजनयतमित्यर्थः ॥ ३ ॥
द्रुतगतिषु पतन्तावृत्थितौ लिप्तपङ्कौ |
द्रुतेति । द्रुतगतिषु वेगेन सञ्चरणेषु व्रजकर्दमे पतन्तौ दिवि द्रष्टुमागतैर्मुनिभिरस्मानपङ्कीकर्तुं समर्थावेतौ स्वयं लिप्तपङ्कौ अधःपतनभयेन यावाश्रयामस्तौ स्वयं पतन्ताविति सस्मितम्, अहो भक्तपारतन्त्र्यमीश्वरयोरिति वन्द्यमानौ ॥ ४ ॥
स्नुतकुचभरमङ्के धारयन्ती भवन्तं |
स्नुतेति । स्नुतं प्रसृतस्तन्यं कुचयुगं यस्मिन्, तरला कृपाकुला मतिर्यस्मिन् इति च क्रियाविशेषणम् । तथा भवन्तमङ्के धारयन्ती या स्तन्यं ददाति, सा यशोदा धन्यधन्या । हे कपटपशुप! स्तनपानमध्ये ते दशनमुकुलैर्हृद्यं मुग्धो हासाङ्कुरो मन्दस्मितं यस्मिन् तद् वक्रं वीक्ष्य जहर्ष सन्तुष्टाभूत् ॥ १ ॥
तदनु चरणचारी दारकैः साकमारा- |