पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/१९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७४
[स्कन्ध :- १०
नारायणीये


गर्गेऽथ निर्गतेऽस्मिन् नन्दितनन्दादिनन्धमानस्त्वम् ।
मद्गदमुद्गतकरुणो निर्गमय श्रीमरुत्पुराधीश! ॥ १० ॥

 गर्ग इति । नन्दितैर्मुदितैर्नन्दादिभिर्नन्द्यमानो लाल्यमानो मम गदं रोगं निर्गमय निराकुरु ॥ १० ॥

इति कृष्णस्य जातकर्मनामकरणवर्णनं

चतुश्चत्वारिंशं दशकम् ।


अयि सबल! मुरारे! पाणिजानुप्रचारैः
 किमपि भवनभागान् भूषयन्तौ भवन्तौ ।
चलितचरणक[१]ञ्जे मञ्जुमञ्जीरशिञ्जा-
 श्रवणकुतुकभाजी चेरतुक्ष्चारु वेगात् ॥ १ ॥

 अयीति । पाणिजानुप्रचारैः पाणिद्वयेन जानुद्वथेन च कृतैश्चङ्गमणैर्भवनभागानलिन्दादिप्रदेशान्, एकत्र चिरमनवस्थानात् किमपि कञ्चित् कालं भूषयन्तौ चलिते चरणकञ्जे पादाम्बुजे मञ्जुमञ्जीरशिञ्जाश्रवणकुतुकभाजौ यतः, अतो वेगाञ्वेरतुः ॥

मृदु मृदु विहसन्तावुन्मिषद्दन्तवन्तौ
 वदनपतितकेशौ दृश्यपादाब्जदेशौ ।
भुजगलितकरान्तव्यालगत्कङ्कणाङ्को
 मतिमहरतमुच्चैः पश्यतां विश्वनृणाम् ॥ २ ॥

 मृद्विति । अन्तरान्तरा यत्किञ्चिदवलोक्य मृदु मृदु विहसन्तावत एवोन्मिषंद्दन्तवन्तौ दृश्यमानकतिपयदन्तमुकुलौ । अङ्घ्रिद्वयाकर्षणे दृश्यौ ध्वजवज्राघङ्कितत्वेन दर्शनीयौ पादाब्जदेशौ ययोः । भुजगलितेति भुजोपरिदेशाद् गलितत्वान्मणिबन्धलग्नकङ्कणैः सञ्जातपरभागौ युवां विश्वेषां नृणां मतिमुच्चैरतिशयेनाहरतं जहथुः ॥ २ ॥


  1. 'ञ्जौ' मूलपाठ: