पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/१८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७२
[स्कम्न्ध:-१०
नारायणीये


 नन्द इति । नन्दितात्मा सन्तुष्टः यमिनां मुनीनां बृन्दिष्ठं श्रेष्ठं मानयन् यथाविधि पूजयन् ॥ २ ॥

यदुवंशाचार्यत्वात् सुनिभृतमिदमार्य ! कार्यमिति कथयन् ।
गर्गो निर्गतपुलकक्ष्चक्रे तव साग्रजस्य नामानि ॥ ३ ॥

 यद्विति । मम यदुवंशाचार्यत्वान्मया संस्कृते तव पुत्रे कंसस्य यदुकुमारशङ्का स्यात् । तत्परिहाराय सुनिभृतमतिगूढमिदं कार्यम् । त्वत्स्पर्शान्निर्गतपुलकः ॥ ३ ॥

कथमस्य नाम कुर्वे सहस्रनाम्नो [१]
ह्यनन्तनाम्नो वा ।
इति नूनं गर्गमुनिश्चक्रे तव नाम नाम रहसि विभो ! ॥ ४ ॥

 कथमिति । अनन्तनाम्नः कथं नाम कुर्वे । कथं कानिचिन्नामानि कृतवानिति पृष्टः किं ब्रूयामिति विषण्णो नाम मुनिस्तव नाम रहसि चक्रे ॥ ४ ॥

 कृष्णनाम निर्वक्ति-

कृषिधातुणकाराभ्यां सत्तानन्दात्मतां किलाभिलपत् ।
जगदधकार्षित्वं वा कथयदृषिः कृष्णनाम ते व्यतनोत् ॥ ५ ॥

 कृषीति । कृषिधातुः सत्तावाचकः, णकार आनन्दवाचकः, तयोः सामानाधिकरण्येन कृष्णनाम सत्तानन्दात्मतामभिलपत् परब्रह्मवाचकं भवति । किलशब्दोऽत्र पुराणप्रसिद्धिं द्योतयति । तदुक्तं -

“कृषिर्भूवाचकः शब्दो णश्च निर्वृतिवाचकः ।
तयोरैक्यं परं ब्रह्म कृष्ण इत्यभिधीयते ॥ "

 इति । अथवा जगतामघं कर्षतीति कृष्ण इति निर्वचनमित्याह – जगदिति । कथयदिति नामविशेषणम् ॥ ५ ॥

अन्यांक्ष्च नामभेदान् व्याकुर्वन्नग्रजे च रामादीन् ।
अतिमानुषानुभावं न्यगदत् त्वामप्रकाशयन् पित्रे ॥ ६ ॥


  1. 'प्य' क. पाठः.