पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/१८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् - ४४]
१७१
कृष्णस्य जातकर्मनामकरणवर्णनम् ।


इत्यादि मातरपितृप्रमुखैस्तदानीं
 सम्प्रार्थितस्त्वदवनाय विभो ! त्वमेव ॥ ९ ॥

 भूय इति । भूयोऽप्येवंवि[१]धसङ्कटेषु गोविन्दो विष्णुरेव नः सुतं परिपालयतात् ॥ ९ ॥

वातात्मकं दनुजमेवमयि प्रधून्वन्
 वातोद्भवान् मम गढ़ान् किमु नो धुनोषि ।
किं वा करोमि पुनरप्यनिलालयेश !
 निश्शेषरोगशमनं मुहुरर्थये त्वाम् ॥ १० ॥

 वातेति । वातात्मकं तृणावर्ते प्रधून्वन् निगृह्णन् हे अनिलालयेश ! तव वातालयस्थत्वे वातनिग्राहकत्वे च सत्यपि मम वातोद्भवान् गदान् किमु नो धुनोषि मत्प्रारब्धकर्मदोषादिति चेत् किं वा करोमि । अपि वा पुनः प्रारब्धावसाने स्थूलसूक्ष्मदेहद्वयपातेन निःशेषाणां बाह्यानां वातादीनामान्तराणां रागादीनामपि रोगाणां शमनं मोक्षमप्यर्थये प्रार्थयामि ॥ १० ॥

इति तृणावर्तवधवर्णनं त्रयश्चत्वारिंशं दशकम् ।

 अथ क्ष्लोकदशकेन गर्गस्य नामकरणजातकर्माख्याने दर्शयति -

गूढं वसुदेवगिरा कर्तुं ते निष्क्रियस्य संस्कारान् ।
हृद्रतहोरातत्त्वो गर्गमुनिस्त्वद्गृ [२]हान् विभो ! गतवान् ॥ १ ॥

 गूढमिति । परमार्थतो निष्क्रियस्यापि मनुष्यदृष्ट्या कर्तव्यान् संस्कारान् नामकरणादीन् हृद्गतहोरातत्त्वः सम्यग् विदितज्योतिश्शास्त्रयाथार्थ्यः ॥ १ ॥

नन्दोऽथ नन्दितात्मा बृन्दिष्ठं मानयन्नमुं यमिनाम् ।
मन्दास्मितार्द्रमृचे त्वत्संस्कारान् विधातुमुत्सुकधीः ॥ २ ॥


  1. 'धे सङ्कटे गो' क. ग. पाठ:.
  2. 'हं' क. पाठ:.