पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/१८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७०
[स्कस्धः- १०
नारायणीये


प्रैक्षन्त हन्त निपतन्तममुष्य वक्ष-
 स्यक्षीणमेव च भवन्तमलं इसन्तम् ॥ ६ ॥

 रोदेति । तदनु निपतन्तमतिस्थविष्ठं स्थूलतरं तृणावर्तस्य देहम् अमुष्य वक्षसि निपतन्तं भवन्तं च प्रैक्षन्त, यतोऽलं हसन्तम् अतोऽक्षीणमेव च प्रैक्षन्तेत्यर्थः ॥ ६ ॥

ग्रावप्रपातपरिपिष्टगरिष्ठदेह-
 भ्रष्टासुदुष्टदनुजोपरि धृष्टहासम् ।
आघ्नानमम्बुजकरेण भवन्तमेत्य
 गोपा दधुर्गिरिवरादिव नीलरत्नम् ॥ ७ ॥

 ग्रावेति । ग्रावप्रपातेन पाषाणपृष्ठनिपतनेन परिपिष्टश्चूर्णांकृतो गरिष्ठो यो देहस्तस्माद् भ्रष्टा असवो यस्य तस्य दुष्टदनुजस्योपरि अम्बुजकरेणाघ्नानं मया हतोऽयमिति दिविष्ठान् ग्राहयितुं निघ्नन्तमिव चलितकराम्बुजम् अत एव धृष्टहासं कपटहासयुक्तं गोपा दधुरुद्धृतवन्तः ॥ ७ ॥

एकैकमाशु परिगृह्य निकामनन्द-
 न्नन्दादिगोपपरिरब्धविचुम्बिताङ्गम् ।
आदातुकामपरिशङ्गितगोपनारी-
 हस्ताम्बुजप्रपतितं प्रणुमो भवन्तम् ॥ ८ ॥

 एकैकमिति । एकैकं मृदुकरचरणादिकं परिगृह्य निकाममतिशयेन नन्दद्भिर्मोदमानैर्नन्दादिभिः परिवार्य युगपत् परिरब्धानि विचुम्बितानि चाङ्गानि यस्य । आदातुकामेति मामादातुकामेयमिति परिशङ्कितानां गोपनारीणां हस्ताम्बुजेषु प्रपतितं हस्तप्रसारणात् पूर्वमेव निपत्य ता आकुलीकुर्वन्तम् ॥ ८ ॥

भूयोऽपि किन्नु कृणुम: * प्रणतार्तिहारी
 गोविन्द एव परिपालयतात् सुतं नः ।


  • कुर्म इत्यर्थः । ‘कृवि हिंसाकरणयोश्च' ।