तावदिति । विदूरं दूरादेवोपकर्णितेन घोरघोषेण व्याजृम्भिन्या प्रवृद्धया पांसुपटल्या च परिपूरिता दशाशा येन । वात्या वातसमूहस्तद्वपुस्तृणावर्ताख्यो जनानां मानसहारी त्वं, तं त्वामेव जहार ॥ २ ॥
उद्दामपांसुतिमिराहतदृष्टिपाते |
उद्दामेति । उद्दामाभ्यां पांसुतिमिराभ्यामाहतो दृष्टिपातो यस्य । अतः किमपि द्रष्टुमकुशलेऽसमर्थे बालकस्य किं जातमिति ॥ ३ ॥
तावत् स दानववरोऽपि च दीनमूर्ति- |
तावदिति । दीनमूर्तिः क्षीणशरीरः । भावत्को भवदीयो भारो गुरुत्वं तस्य परिधारणेन लूनवेगो नष्टगमनवेगः सङ्कोचं निश्चेष्टतामाप । तदनु अनन्तरं क्षता नष्टाः पांसवो घोषश्च यस्मिन् तस्मिन् घोषे व्रजे व्यतायत व्याप्तोऽभूत् ॥ ४ ॥
रोदोपकर्णनवशादुपगम्य गेहूं |
रोदेति। यशोदाया रोदोपकर्णनवशात् तस्या गेहमुपगम्य । कण्ठे बाहुभ्यां बद्धं त्वां मुमुक्षुः । दीनः क्षीणजीवितः ॥ ५ ॥
रोदाकुलास्तदनु गोपगणा बहिष्ट- |