नन्द इति । नन्दितात्मा सन्तुष्टः यमिनां मुनीनां बृन्दिष्ठं श्रेष्ठं मानयन् यथाविधि पूजयन् ॥ २ ॥
यदुवंशाचार्यत्वात् सुनिभृतमिदमार्य ! कार्यमिति कथयन् । |
यद्विति । मम यदुवंशाचार्यत्वान्मया संस्कृते तव पुत्रे कंसस्य यदुकुमारशङ्का स्यात् । तत्परिहाराय सुनिभृतमतिगूढमिदं कार्यम् । त्वत्स्पर्शान्निर्गतपुलकः ॥ ३ ॥
कथमस्य नाम कुर्वे सहस्रनाम्नो [१] |
कथमिति । अनन्तनाम्नः कथं नाम कुर्वे । कथं कानिचिन्नामानि कृतवानिति पृष्टः किं ब्रूयामिति विषण्णो नाम मुनिस्तव नाम रहसि चक्रे ॥ ४ ॥
कृष्णनाम निर्वक्ति-
कृषिधातुणकाराभ्यां सत्तानन्दात्मतां किलाभिलपत् । |
कृषीति । कृषिधातुः सत्तावाचकः, णकार आनन्दवाचकः, तयोः सामानाधिकरण्येन कृष्णनाम सत्तानन्दात्मतामभिलपत् परब्रह्मवाचकं भवति । किलशब्दोऽत्र पुराणप्रसिद्धिं द्योतयति । तदुक्तं -
“कृषिर्भूवाचकः शब्दो णश्च निर्वृतिवाचकः । |
इति । अथवा जगतामघं कर्षतीति कृष्ण इति निर्वचनमित्याह – जगदिति । कथयदिति नामविशेषणम् ॥ ५ ॥
अन्यांक्ष्च नामभेदान् व्याकुर्वन्नग्रजे च रामादीन् । |
- ↑ 'प्य' क. पाठः.