पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/१८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६६
[स्कन्धः - १०
नारायणीये


 तत इति । भवतः [१] तव बालकस्य त्राणे रक्षणे यशोदया नियुक्तानां बालकानां शकटपतनचटचटाशब्दोत्थया प्रभीत्या संक्रन्दनस्याक्रन्दनस्य बहुभिः कृतत्वात् सङ्कुलारवैः प्रवृद्धैरारवैर्विमिश्रं यथा भवति तथा परिस्फुटतां विघटितसन्धिबन्धानां दारूणामनोवयवानामारवोऽश्रावि यशोदादिभिः श्रूयते स्म ॥ २ ॥

ततस्तदाकर्णनसंभ्रमश्रमप्रकम्पिवक्षोजभरा वजाङ्गनाः ।
भवन्तमन्तर्ददृशुः समन्ततो विनिष्पतद्दारुणदारुमध्यगम् ॥ ३ ॥

 तत इति । ततस्तदाकर्णनेन प्राग्वत् किमिदमिति सम्भ्रमेण स्वस्वगेहान्नन्दगेहं प्रति धावनपरिश्रमेण च प्रकम्पिनौ वक्षोजभरौ यासां ताः अन्तर्भवनान्ते समन्ततः परितो विनिप्पततां दारुणानां गुरुतराणां दारूणामक्षकूबराद्यनोवयवानां मध्यगं ददृशुः ॥ ३ ॥

शिशोरहो किं किमभूदिति द्रुतं प्रधाव्य नन्दः पशुपाश्च भूसुराः ।
भवन्तमालोक्य यशोदया धृतं समाश्वसन्नजलार्द्रलोचनाः ॥ ४ ॥

 शिशोरिति । नन्दादयः प्रधाव्य वेगादागत्य यशोदया धृतमुद्धृतमवलोक्य समाश्वसन् आश्वासं कृतवन्तः ॥ ४ ॥

कस्को नु कौतस्कुत एष विस्मयो विशङ्कटं यच्छकटं विपाटितम् ।
न कारणं किञ्चिदिहेति ते स्थिताः स्वनासिकादत्तकरास्त्वदीक्षकाः ॥५॥

 कस्क इति । कस्को नु कौतस्कुतः कः कः कीदृशः कुतः कुतः[२] कस्मात् कारणादागतः । सम्भ्रमाद् द्विरुक्तिः । विशङ्कटं विस्तृतं विपाटितं केनापि भिन्नावयवं कृतम् । इह न किञ्चित् कारणं, यतोऽस्मरणीयैवंविधसामर्थ्यो बालकः स्वनासिकादत्तकरा इति विस्मयानुभावः ॥ ५ ॥

कुमारकस्यास्य पयोधरार्थिनः प्ररोदने लोलपदाम्बुजाहतम् ।
मया मया दृष्टमनो विपर्यगादितीश ! ते पालकबालका जगुः ॥ ६ ॥


  1. 'तः स्वबा' ख. ग. पाठ:.
  2. 'त आगतः कौतस्कुतः, कुतः क' क. पाठः.