तत इति । भवतः [१] तव बालकस्य त्राणे रक्षणे यशोदया नियुक्तानां बालकानां शकटपतनचटचटाशब्दोत्थया प्रभीत्या संक्रन्दनस्याक्रन्दनस्य बहुभिः कृतत्वात् सङ्कुलारवैः प्रवृद्धैरारवैर्विमिश्रं यथा भवति तथा परिस्फुटतां विघटितसन्धिबन्धानां दारूणामनोवयवानामारवोऽश्रावि यशोदादिभिः श्रूयते स्म ॥ २ ॥
ततस्तदाकर्णनसंभ्रमश्रमप्रकम्पिवक्षोजभरा वजाङ्गनाः । |
तत इति । ततस्तदाकर्णनेन प्राग्वत् किमिदमिति सम्भ्रमेण स्वस्वगेहान्नन्दगेहं प्रति धावनपरिश्रमेण च प्रकम्पिनौ वक्षोजभरौ यासां ताः अन्तर्भवनान्ते समन्ततः परितो विनिप्पततां दारुणानां गुरुतराणां दारूणामक्षकूबराद्यनोवयवानां मध्यगं ददृशुः ॥ ३ ॥
शिशोरहो किं किमभूदिति द्रुतं प्रधाव्य नन्दः पशुपाश्च भूसुराः । |
शिशोरिति । नन्दादयः प्रधाव्य वेगादागत्य यशोदया धृतमुद्धृतमवलोक्य समाश्वसन् आश्वासं कृतवन्तः ॥ ४ ॥
कस्को नु कौतस्कुत एष विस्मयो विशङ्कटं यच्छकटं विपाटितम् । |
कस्क इति । कस्को नु कौतस्कुतः कः कः कीदृशः कुतः कुतः[२] कस्मात् कारणादागतः । सम्भ्रमाद् द्विरुक्तिः । विशङ्कटं विस्तृतं विपाटितं केनापि भिन्नावयवं कृतम् । इह न किञ्चित् कारणं, यतोऽस्मरणीयैवंविधसामर्थ्यो बालकः स्वनासिकादत्तकरा इति विस्मयानुभावः ॥ ५ ॥
कुमारकस्यास्य पयोधरार्थिनः प्ररोदने लोलपदाम्बुजाहतम् । |